Enter your Email Address to subscribe to our newsletters

गुवाहाटी, २२ अगस्तमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वशर्मा शनिवासरे अवदत् यत् केन्द्रीयस्वास्थ्य-परिवारकल्याणमन्त्रालयेन १०० एमबीबीएस-छात्राणां नामाङ्क-नस्य अनुमत्या सह बङ्गाईग्राम-वैद्यकीय-महाविद्यालयाय औपचारिका-नुमोदनं प्रदत्तम् अस्ति।
अनेन अनुमोदनेन बङ्गाईग्राम-वैद्यकीय-महाविद्यालयम् असमस्य पञ्चदशतमं वैद्यकीयमहाविद्यालयम् अभवत्। राज्ये एमबीबीएस-आसनानां संख्या च १,९२५ पर्यन्तं वर्धिता अस्ति।
मुख्यमन्त्री सामाजिकमाध्यमे एकं सन्देशं प्रेष्य अवदत् यत् एषा उपलब्धिः असमं चिकित्साशिक्षायाः प्रमुखकेन्द्रं कर्तुं दिशि महत्त्वपूर्णं मीलस्तम्भम् अस्ति। महाविद्यालयाय अनुमोदनं प्रदत्तवते तथा राज्याय निरन्तरं सहयोगं प्रददते केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जे.पी. नड्डा इत्यस्मै राज्यवासिनां पक्षतः मुख्यमन्त्रिणा कृतज्ञता ज्ञापिता।
मुख्यमन्त्री एताम् उपलब्धिं असमस्य गौरवस्य क्षणम् इति वर्णितवान्।
Hindusthan Samachar / Divya Ranjan