छत्तीसगढे स्वास्थ्यसेवानां विस्तारं सुदृढीकरणं च प्रति केन्द्रीयस्वास्थ्यमन्त्रिणा सह मुख्यमन्त्रिणः सायस्य चर्चा
नवदिल्ली/रायपुरम्, २२ अगस्तमासः (हि.स.)। छत्तीसगढस्य मुख्यमंत्री विष्णुदेवसायः स्वस्य द्विदिवसीयप्रवासस्य द्वितीयदिने शुक्रवासरे सायंकाले केन्द्रीयस्वास्थ्य-परिवारकल्याणमन्त्री जे.पी. नड्डा इत्यस्य निवासस्थाने सौजन्य-साक्षात्कारं कृतवान्। मुख्यमंत
मुख्यमंत्री साय केंद्रीय मंत्री जे.पी. नड्डा से चर्चा करते हुए


नवदिल्ली/रायपुरम्, २२ अगस्तमासः (हि.स.)। छत्तीसगढस्य मुख्यमंत्री विष्णुदेवसायः स्वस्य द्विदिवसीयप्रवासस्य द्वितीयदिने शुक्रवासरे सायंकाले केन्द्रीयस्वास्थ्य-परिवारकल्याणमन्त्री जे.पी. नड्डा इत्यस्य निवासस्थाने सौजन्य-साक्षात्कारं कृतवान्।

मुख्यमंत्री सायः केन्द्रीयमन्त्रिणः नड्डा इत्यस्य स्वास्थ्यं कुशलक्षेमं च पृष्टवान् तथा तस्य उत्तमस्वास्थ्याय शुभकामनाः अर्पितवान्। अस्मिन् अवसरे छत्तीसगढे स्वास्थ्य-चिकित्सासेवायाः विस्तारं, सुदृढीकरणं तथा केन्द्रसर्वकारस्य सहयोगेन सञ्चालितानां स्वास्थ्य-योजनानां प्रगतिं प्रति सार्थकी चर्चा अभवत्।

मुख्यमन्त्री सायः मिलनसमये केन्द्रीयस्वास्थ्यमन्त्रिणं राज्ये स्वास्थ्यसेवानां सुदृढीकरणस्य दिशि क्रियमाणैः प्रयत्नैः अवगतं कृतवान्। सः उक्तवान् यत् राज्यसर्वकारस्य विशेषः केन्द्रबिन्दुः एषः अस्ति यत् प्रदेशस्य प्रत्येकस्मै नागरिकाय तस्य समीपे एव गुणवत्तापूर्णा सुलभा च स्वास्थ्यसेवा उपलब्धा भवेत्। एतदर्थं प्राथमिक-स्वास्थ्यसेवाभ्यः आरभ्य उच्चस्तरीय-चिकित्सासुविधापर्यन्तं सम्पूर्णं स्वास्थ्य-तन्त्रं निरन्तरं सुदृढीक्रियते।

मुख्यमन्त्रिणा विशेषरूपेण बस्तर-सर्गुजा-प्रदेशाभ्यां सहितं प्रदेशस्य दूरस्थेषु, वनाञ्चलक्षेत्रेषु, जनजातीयक्षेत्रेषु च स्वास्थ्यसेवानां विस्ताराय क्रियमाणानां प्रयत्नानां विषये सूचना प्रदत्ता। सः उक्तवान् यत् भौगोलिकपरिस्थितीनां कारणेन दूरस्थक्षेत्रेषु स्वास्थ्यसुविधानां उपलब्धता महत्त्वपूर्णा समस्या आसीत्। राज्यसर्वकारः एतेषु क्षेत्रेषु स्वास्थ्याधारभूतसंरचनायाः विस्तारं, चिकित्सकीयसेवानाम् उपलब्धतां तथा आधुनिकचिकित्सासुविधानां प्रति जनानां प्रवेशं सुकरं कर्तुं प्राथमिकतया कार्यं करोति।

मुख्यमंत्री श्रीसायः केन्द्रीयमन्त्री श्रीनड्डा इत्यस्मै प्रदेशे केन्द्रसर्वकारस्य सहयोगेन सञ्चालितानां विभिन्नानां स्वास्थ्य-योजनानां कार्यक्रमाणां च प्रगतेः विषये अपि अवगतं कृतवान्। सः उक्तवान् यत् केन्द्र-राज्यसर्वकारयोः समन्वित-प्रयत्नैः छत्तीसगढे स्वास्थ्यसेवानां परिधिः निरन्तरं वर्धते। मातृ-शिशुस्वास्थ्यं, संस्थागतप्रसवः, गम्भीररोगाणां चिकित्सा, स्वास्थ्यबीमा तथा आपत्कालीन-चिकित्सासेवाः अधिकप्रभाविण्यः कर्तुं निरन्तरं कार्यं क्रियते।

मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशे स्वास्थ्यसेवाः सुलभाः जनोन्मुख्यः च कर्तुं व्यापकः परिवर्तनः अभवत्। आयुष्मान-भारतसहिताभिः केन्द्रसर्वकारस्य विभिन्नाभिः स्वास्थ्य-योजनाभिः आवश्यकताग्रस्तेभ्यः कुटुम्बेभ्यः गुणवत्तापूर्णचिकित्सां प्रदातुं महती सहायता प्राप्ता अस्ति। छत्तीसगढ-सर्वकारः अपि केन्द्रस्य योजनानां प्रभाविप्रवर्तनं सुनिश्चित्य अन्तिमजन-पर्यन्तं उत्तमस्वास्थ्यसुविधानां प्रापणस्य सङ्कल्पेन कार्यं करोति।

केन्द्रीयस्वास्थ्य-परिवारकल्याणमन्त्री जे.पी. नड्डा इत्यनेन छत्तीसगढे स्वास्थ्य-सेवानां सुधारस्य दिशि क्रियमाणानां प्रयत्नानां विषये सूचना प्राप्ता। तेन प्रदेशे स्वास्थ्य-चिकित्सा-सुविधानां सुदृढीकरणाय केन्द्रसर्वकारस्य पक्षतः आवश्यक-सहयोगस्य आश्वासनं प्रदत्तम्।

मुख्यमन्त्रिणं केन्द्रीयस्वास्थ्यमन्त्रिणं प्रति कृतज्ञता व्यक्ता। सः उक्तवान् यत् केन्द्रसर्वकारस्य निरन्तरसहयोगेन छत्तीसगढे स्वास्थ्यसुविधानां विस्ताराय अधिकं वेगं प्राप्स्यति तथा विशेषतः दूरस्थेषु जनजातीयक्षेत्रेषु च नागरिकेभ्यः उत्तमाः आधुनिकाः च चिकित्सासेवाः उपलब्धाः कर्तुं लक्ष्यं शीघ्रं पूर्णं भविष्यति।

Hindusthan Samachar / Divya Ranjan