पवित्रा ‘छड़ी मुबारक’ पहलगामं प्रति प्रस्थिता, अमरनाथस्य पारम्परिकयात्रायाः वार्षिकशुभारम्भः
२८ अगस्तमासे रक्षाबन्धनपर्वणि पवित्रगुहायां विशेषपूजार्चना भविष्यति, ३० अगस्तमासे पारम्परिकविसर्जनम् श्रीनगरम्, २२ अगस्तमासः (हि.स.)। भगवत: शिवस्य पवित्रप्रतीकं ‘छड़ी मुबारक’ इति शनिवासरे पारम्परिक-पूजार्चनायाः अनन्तरं श्रीनगरस्थात् दशनामी-अखाडाभव
पवित्रा ‘छड़ी मुबारक’ पहलगामं प्रति प्रस्थिता, अमरनाथस्य पारम्परिकयात्रायाः वार्षिकशुभारम्भः


२८ अगस्तमासे रक्षाबन्धनपर्वणि पवित्रगुहायां विशेषपूजार्चना भविष्यति, ३० अगस्तमासे पारम्परिकविसर्जनम्

श्रीनगरम्, २२ अगस्तमासः (हि.स.)। भगवत: शिवस्य पवित्रप्रतीकं ‘छड़ी मुबारक’ इति शनिवासरे पारम्परिक-पूजार्चनायाः अनन्तरं श्रीनगरस्थात् दशनामी-अखाडाभवनात् पहलगामं प्रति प्रस्थापितम्। अनेन सह श्रीअमरनाथस्य पवित्रगुहायाः पारम्परिक-वार्षिकयात्रायाः शुभारम्भः अभवत्।

‘छड़ी मुबारक’ इत्यस्य संरक्षकः महन्तः दीपेन्द्रगिरिः अवदत् यत् पारम्परिकेषु विश्रामस्थलेषु सांकेतिकपूजार्चनां कृत्वा पवित्रा छड़ी पहलगामं प्राप्स्यति। निर्धारित-कार्यक्रमानुसारं ‘छड़ी मुबारक’ २४ अगस्तमासे चन्दनवाडी इत्यत्र तथा २५ अगस्तमासे शेषनागे विश्रामं करिष्यति। ततः २६ अगस्तमासे २७ अगस्तमासे च पञ्चतरिण्यां प्रवासं करिष्यति।

सः अवदत् यत् २८ अगस्तमासे रक्षाबन्धनपर्वणि ‘छड़ी मुबारक’ पवित्रगुहां प्रति नेष्यते। तत्र पारम्परिकपूजार्चनया वैदिकमन्त्राणां च उच्चारणेन सह तस्याः स्थापना करिष्यते।

अयं धार्मिकानुष्ठानः शताब्देभ्यः प्रचलितया तया प्राचीनपरम्परया सम्बद्धः अस्ति, यस्यानुसारं भगवान् शिवः पवित्रगुहायां मातरं पार्वतीम् अमरत्वस्य कथां श्रावितवान् आसीत्।

पवित्रगुहायां धार्मिकानुष्ठाने सम्पन्ने सति ‘छड़ी मुबारक’ पञ्चतरिणीं प्रत्यागमिष्यति। २९ अगस्तमासे शेषनाग-चन्दनवाड्योः मार्गेण तस्याः पहलगामं प्राप्तेः कार्यक्रमः अस्ति। वार्षिकयात्रायाः समापनं ३० अगस्तमासे पूजार्चनया पारम्परिक-विसर्जनसमारोहेण च भविष्यति।

Hindusthan Samachar / Divya Ranjan