Enter your Email Address to subscribe to our newsletters

रायपुरम्, २२ अगस्तमासः (हि.स.)। छत्तीसगढस्य मुख्यमंत्री विष्णुदेवसायः अद्य शनिवासरे दिल्लीयात्रां समाप्य राजधानीं रायपुरं प्रत्यागमिष्यति। निर्धारित-कार्यक्रमानुसारं सः अपराह्णे प्रायः द्विवादने रायपुरं प्राप्स्यति।
रायपुरं प्राप्त्यानन्तरं मुख्यमंत्रीः अपराह्णे सार्धद्विवादने इन्दिरागान्धीकृषि-विश्वविद्यालयं गमिष्यति। तत्र छत्तीस-गढप्रदेश-कंवरसमाज-विकाससमित्याः शपथग्रहणसमारोहे सः सहभागं करिष्यति।
तदनन्तरं मुख्यमंत्री सायं ३:४० वादने लाभाण्डीस्थितं कंवरभवनं गत्वा आयोजिते वृक्षारोपणकार्यक्रमे भागं ग्रहीष्यति। कार्यक्रमस्य समाप्तेः अनन्तरं सः सायं चतुर्वादने मुख्यमन्त्रिनिवासं प्रत्यागमिष्यति।
Hindusthan Samachar / Divya Ranjan