न्यूयॉर्कनगरे मुख्यमंत्रिणो भूपेंद्र पटेलस्य वैश्विकसंस्थानां प्रतिनिधिभिस्सह वन-टू-वन उपवेशनम्
गांधीनगरम्, 22 अगस्तमासः (हि.स.)। गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः स्वस्य अमेरिकादेशयात्रायाः अवधौ न्यूयॉर्कनगरे वैश्विककम्पनीनां प्रतिनिधिभिः सह एकैकशः उपवेशनंकृतवान्। मुख्यमन्त्रिणा जेपी मॉर्गन्, टिलमैन ग्लोबल होल्डिङ्ग, उबर तथा गोलुब कैपि
न्यूयॉर्क में मुख्यमंत्री भूपेंद्र पटेल की वैश्विक कंपनियों के प्रतिनिधियों के साथ बैठक


गांधीनगरम्, 22 अगस्तमासः (हि.स.)।

गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः स्वस्य अमेरिकादेशयात्रायाः अवधौ न्यूयॉर्कनगरे वैश्विककम्पनीनां प्रतिनिधिभिः सह एकैकशः उपवेशनंकृतवान्। मुख्यमन्त्रिणा जेपी मॉर्गन्, टिलमैन ग्लोबल होल्डिङ्ग, उबर तथा गोलुब कैपिटल इत्येतासां कम्पनीनां प्रतिनिधिभिः सह एकैकशः बैठकाः कृताः। तेन सह सः आईबीएम् रिसर्च इत्यस्य संस्थानस्यापि भ्रमणं कृतवान्। मुख्यमन्त्री पटेलस्य नेतृत्वे अमेरिकादेशं गतं प्रतिनिधिमण्डलं राज्यस्य विकासं वैश्विकपूँजी, अत्याधुनिकप्रौद्योगिकी तथा अन्तर्राष्ट्रीयसहयोगेन सह सम्बद्धं कर्तुं दिशि महत्त्वपूर्णं सिद्धं भवति। एतासु बैठकासु गुजरातराज्ये वैश्विकनिवेशस्य, आधुनिकप्रौद्योगिक्याः, नीतिगतऔद्योगिकविकासस्य, अनुसन्धानस्य तथा नवाचारस्य क्षेत्रेषु सहयोगस्य सम्भावनानां विषये विस्तृततया चर्चा अभवत्। अनेन राज्यस्य विकासप्रतिमानं वैश्विक-अर्थव्यवस्थया तथा प्रौद्योगिकीक्षेत्रस्य नवीनावसरैः सह सम्बद्धं कर्तुं सम्भावनाः अधिकं सुदृढाः अभवन्।

मुख्यमन्त्रिणा गिफ्ट् सिटी इत्येतत् वैश्विकस्तरीयं वित्तीयकेन्द्ररूपेण अधिकं सुदृढं कर्तुं उद्देशेन जेपी मॉर्गन् इत्यस्य प्रतिनिधिभिः सह बैठकां कृतवान्। जेपी मॉर्गन् इत्यनेन गिफ्ट् सिटी विषये स्वप्रतिबद्धता पुनरुक्ता तथा अत्र स्वस्य उपस्थितेः व्यवसायस्य च विस्तारस्य योजनानां विषये सूचना प्रदत्ता। मुख्यमन्त्री अवदत् यत् वैश्विकवित्तीयसंस्थानानां वर्धमानः विश्वासः गिफ्ट् सिटी इत्येतत् विश्वस्य प्रमुखेषु वित्तीयकेन्द्रेषु स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

मुख्यमन्त्रिणा न्यूयॉर्कनगरे स्थितस्य गोलुब कैपिटल इत्यस्य सह-अध्यक्षेण जेरी कीफ् इत्यनेन सहापि उपवेशनंकृतवान्। कम्पनी गिफ्ट् सिटी इत्यत्र निवेशं कर्तुं तथा बैंकिङ्ग, बीमा एवं विनिमयक्षेत्रैः सम्बद्धान् वैश्विकभागीदारान् गिफ्ट् सिटी इत्यस्य मञ्चेन सह सम्बद्धं कर्तुं रुचिं प्रदर्शितवती। अपरत्र टिलमैन ग्लोबल होल्डिङ्ग इत्यस्य संस्थापकेन अध्यक्षेण च सञ्जीव आहूजेन सह सम्पन्नायां बैठकायां गुजरातस्य सक्रियनीतीनां प्रशंसा कृता। विशेषतः गुजरातस्य प्रगतिशीलायाः डेटा सेन्टरनीतेः उद्योगानुकूलत्वं प्रतिपादितम्।

बैठकायां एतस्मिन् विषये बलं दत्तं यत् अनुकूलनीतिगतवातावरणेन तथा सर्वकारोद्योगयोः मध्ये दृढेन सहयोगेन डेटा सेन्टरक्षेत्रस्य विकासः अधिकं तीव्रः भवितुं शक्नोति। अनेन धोलेरानगरं भाविदिनानां डिजिटल-अवसंरचनायाः वैश्विककेन्द्ररूपेण विकसितुं सम्भावनाः अपि सुदृढाः अभवन्।

उबर इत्यनेन गुजरातस्य द्वितीयस्तरीयेषु तृतीयस्तरीयेषु च नगरेषु स्वसेवानां विस्तारं कर्तुं रुचिः प्रदर्शिता। अनेन राज्यस्य लघुषु मध्यमेषु च नगरेषु परिवहनस्य सम्पर्कव्यवस्थायाः च सुविधाः सुदृढाः भवितुं सम्भावनाः सन्ति। गुजरातराज्ये आयोज्यमानेषु आगामीषु बृहद् क्रीडाकार्यक्रमेष्वपि उबर इत्यनेन सहकारस्य सम्भावनासु रुचिः प्रदर्शिता। अनेन क्रीडकानां दर्शकानां च कृते सुगमां परिवहनव्यवस्थां विकसितुं नवीनाः अवसराः सृजितुं शक्यन्ते।

मुख्यमन्त्री पटेलः न्यूयॉर्कस्य यॉर्कटाउन हाइट्स् इत्यत्र स्थितस्य आईबीएम् रिसर्च इत्यस्यापि भ्रमणं कृतवान्। तत्र तेन कृत्रिमबुद्धिमत्ता, क्वाण्टम् सङ्गणनं तथा अर्धचालकक्षेत्रे प्रचलितस्य अत्याधुनिकस्य अनुसन्धानस्य नवाचारस्य च विषये सूचना प्राप्ता। भारतदेशे गुजरातराज्ये च अनुसन्धानविकासयोः क्षमताः सुदृढीकर्तुं ज्ञानविनिमयस्य, गहनसहयोगस्य तथा नवाचारस्य सम्भावनानां विषये अपि विचारविमर्शः कृतः।

अमेरिकादेशयात्रायाः अवधौ वैश्विकवित्तीयप्रौद्योगिकीकम्पनीभिः सह सम्पन्नाभिः एताभिः महत्त्वपूर्णाभिः चर्चाभिः गुजरातराज्ये निवेशस्य, गिफ्ट् सिटी इत्यस्य विस्तारस्य, धोलेरानगरे डेटा सेन्टरस्य भाविदिनानां डिजिटल-अवसंरचनायाः च विकासस्य तथा कृत्रिमबुद्धिमत्ता, क्वाण्टम् सङ्गणनं एवं अर्धचालकक्षेत्रेषु सहयोगस्य नवीनाः सम्भावनाः प्रकटिताः सन्ति।

मुख्यमन्त्रिणः अस्याः यात्रया गुजरातस्य कृते वैश्विकसाझेदारीस्य नूतनः आयामः सम्बद्धः अभवत्। आगामिकाले निवेशस्य, जीविकायाः, अत्याधुनिकप्रौद्योगिक्याः, अनुसन्धानस्य तथा नवाचारस्य क्षेत्रेषु राज्यस्य कृते व्यापकाः अवसराः उत्पत्स्यन्ते इति अपेक्षा अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani