रक्षामन्त्री राजनाथसिंहेन नोएडानगरे निदानकेन्द्रस्य उद्घाटनं कृतम्
नोएडा, २२ अगस्तमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः शनिवासरे नोएडानगरस्य सेक्टर-६ स्थिता इन्दिरा गान्धी कला केन्द्रे आयोजिते कार्यक्रमे सहभागितां कृतवान्। अस्मिन् अवसरे तेन सेक्टर-७५ स्थितस्य महाजन इमेजिंग् एण्ड् लैब्स् इत्यस्य निदानकेन्द्रस्य उद
डायग्नोसिस सेंटर के उद्घाटन के अवसर पर मौजूद केंद्रीय रक्षा मंत्री राजनाथ सिंह की फोटो


नोएडा, २२ अगस्तमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः शनिवासरे नोएडानगरस्य सेक्टर-६ स्थिता इन्दिरा गान्धी कला केन्द्रे आयोजिते कार्यक्रमे सहभागितां कृतवान्। अस्मिन् अवसरे तेन सेक्टर-७५ स्थितस्य महाजन इमेजिंग् एण्ड् लैब्स् इत्यस्य निदानकेन्द्रस्य उद्घाटनं कृतम्।

ततः पूर्वं रक्षामन्त्रिणः नोएडानगरे आगमने सति महाजन इमेजिंग् एण्ड् लैब्स् संस्थायाः कार्यकारी निदेशिका ऋतु महाजन तथा निदेशकः हर्ष महाजन च तस्य स्वागतं कृतवन्तौ। कार्यक्रमस्य अवधौ शिवानी वर्मा कथकनृत्यस्य प्रस्तुतीकरणं कृतवती।

रक्षामन्त्रिणः कार्यक्रमं दृष्ट्वा नगरे सुरक्षायाः कठोराः प्रबन्धाः कृताः आसन्। तस्य सुरक्षायै बहुसंख्यकाः पुलिसबलस्य जवानाः नियोजिताः आसन्। यातायातव्यवस्थां सुचारुरूपेण संचालयितुं केषुचित् मार्गेषु मार्गपरिवर्तनम् अपि कृतम्।

कार्यक्रमे सांसदः तथा पूर्वकेन्द्रीयमन्त्री डॉ. महेश शर्मा इत्यादयः अन्ये गणमान्यजनाः अपि उपस्थिताः आसन्।

-----------

Hindusthan Samachar / Dheeraj Maithani