मुख्यमंत्री रेखा गुप्ता वीआईटीमध्ये कार्बिडस्य कृतम् उद्घाटनम्
नव दिल्ली, 22 अगस्तमासः (हि.स.)। दिल्लीमुख्यमन्त्री रेखागुप्ता अद्य तमिलनाडुराज्यस्य वेलूरनगरे स्थिते वेल्लोरप्रौद्योगिकीसंस्थाने ‘बैक्टीरियोफेज् तथा संक्रामकरोगेषु उन्नतशोधकेन्द्रस्य’ (कार्बिड्) उद्घाटनं कृतवती। मुख्यमन्त्रिणी सामाजिकमाध्यमस्य ए
दिल्ली की मुख्यमंत्री रेखा गुप्ता ने वीआईटी में कार्बिड का उद्घाटन करते हुए


नव दिल्ली, 22 अगस्तमासः (हि.स.)।

दिल्लीमुख्यमन्त्री रेखागुप्ता अद्य तमिलनाडुराज्यस्य वेलूरनगरे स्थिते वेल्लोरप्रौद्योगिकीसंस्थाने ‘बैक्टीरियोफेज् तथा संक्रामकरोगेषु उन्नतशोधकेन्द्रस्य’ (कार्बिड्) उद्घाटनं कृतवती। मुख्यमन्त्रिणी सामाजिकमाध्यमस्य एक्स् इत्याख्ये पटले प्रकाशितेन सन्देशेन उक्तवती यत् भारतस्य वैज्ञानिकप्रतिभा अद्य अनुसन्धानात् समाधानस्य दिशि तथा नवाचारात् जनकल्याणस्य दिशि नूतनानि उच्चशिखराणि प्राप्नोति। भारतीयचिकित्सानुसन्धानपरिषदः (आईसीएमआर) सहयोगेन स्थापितमिदं केन्द्रं संक्रामकरोगाणां क्षेत्रे अत्याधुनिकानुसन्धानाय नूतनां गतिं प्रदास्यति। सा उक्तवती यत् एतादृशाः संस्थाः स्वस्थभारतस्य सङ्कल्पं सुदृढीकुर्वन्तः वैश्विकस्वास्थ्य-अनुसन्धाने भारतस्य भूमिकां अधिकं सशक्तां करिष्यन्ति।

उल्लेखनीयं यत् भारतीयचिकित्सानुसन्धानपरिषदः वित्तपोषितस्य प्रतिष्ठितस्य बहिर्भित्तीय ‘उन्नतशोधकेन्द्र’ कार्यक्रमस्य अन्तर्गतं वेल्लोरप्रौद्योगिकीसंस्थाने डॉ. एन. रमेशेन कार्बिड् इति केन्द्रस्य स्थापना कृता। कार्बिड् प्राणघातकानां जीवाणुजनितानां संक्रमणानां निवारणाय बैक्टीरियोफेज् इत्येषां पृथक्करणे, लक्षणनिर्धारणे, चिकित्सायां च तेषाम् उपयोगे सम्बन्धितस्य अत्याधुनिकानुसन्धानस्य विकासाय समर्पितम् अस्ति। विशेषतः रोगाणुरोधिप्रतिरोधस्य वर्धमानानां प्रकरणानां दृष्ट्या अस्य केन्द्रस्य महत्त्वं वर्तते। इदं केन्द्रं संक्रामकरोगाणां प्रबन्धने बहुविषयकानुसन्धानस्य विकासस्य च परियोजनासु, अनुसन्धानस्य चिकित्सकीयप्रयोगानुकूलरूपान्तरणे तथा परामर्शसेवासु च सक्रियतया कार्यं करोति।

---------------

Hindusthan Samachar / Dheeraj Maithani