Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २२ अगस्तमासः (हि.स.)। ग्रामीणविकासमन्त्रालयस्य सशक्त-समित्या महिलानेतृत्वयुक्तानां ग्रामीणो-द्यमानां विस्तारं तेषां च विकासो-न्मुखव्यापारेषु रूपान्तरणं कर्तुं सम्बद्धानां बहूनां महत्त्वपूर्णप्रस्तावानां समीक्षा कृता।
ग्रामीणविकासमन्त्रालयस्य अनुसारं दीनदयाल-अन्त्योदय-योजना-राष्ट्रीयग्रामीणजीविकामिशनस्य गैरकृषि-जीविकाघटकस्य अन्तर्गतं आयोजितायाः अस्याः सभायाः अध्यक्षता ग्रामीण-विकाससचिवेन रोहितकंसलेन कृता। अस्याः प्रयत्नस्य प्रमुखोद्देश्यं ग्रामीण-महिलाउद्यमिनां प्रोत्साहनं कृत्वा षट्कोटि ‘लखपति-दीदी’-निर्माणस्य राष्ट्रीयं लक्ष्यं गतिं प्रदातुम् अस्ति।
सभायां संयुक्तसचिवः अमितशुक्लः, स्वातिशर्मा च, राज्येभ्यः वरिष्ठाधिकारिणः तथा शैक्षणिकप्रतिनिधयः उपस्थिताः आसन्।
समित्या चतुर्षु राज्येषु प्रमुखैः शैक्षणिकसंस्थाभिः सह साझेदारीरूपेण नूतनानाम् इन्क्यूबेटर-कार्यक्रमाणां रूपरेखा निर्धारितास्ति। एतेषु बिहार-राज्यस्य आईआईटी-पाटलिपुत्रम्, जम्मू-कश्मीरस्य आईआईएम-जम्मू, उत्तर-प्रदेशस्य आईआईएम-लखनऊ तथा गुजरातस्य आईआईटी-गान्धीनगरम् इति संस्थानि सन्ति।
एतेषां कार्यक्रमाणां माध्यमेन षट्शताधिकेभ्यः उच्चक्षमतायुक्तेभ्यः ग्रामीणस्वयं-सहायतासमूहानां उद्यमेभ्यः व्यावसायिकरणनीतौ, मार्गदर्शने, वित्तीययोजनायां, प्रौद्योगिक्यां तथा विपणनप्रवेशे संरचितं सहयोगं प्रदास्यते। नूतनाः इन्क्यूबेटर-कार्यक्रमाः मुख्यतया विविधेषु क्षेत्रेषु केन्द्रिताः भविष्यन्ति, यथा खाद्य-कृषिप्रसंस्करणम्, वस्त्र-हस्तशिल्प-विनिर्माणम्, खुदरासेवा-पर्यटनसम्बद्धाः क्रियाकलापाः तथा डिजिटलोद्यमाः।
स्टार्ट-अप-ग्रामोद्यमिताकार्यक्रमे पश्चिमबङ्गाले गोवाराज्ये च गैरकृष्युद्यमानाम् पारितन्त्रं सुदृढं कर्तुं कार्यक्रमस्य विस्तारस्य अनुमोदनं कृतम्।
असमे, बिहारस्य, पश्चिमबङ्गाले तथा कर्नाटके सफलानां प्रतिरूपाणाम् अनुसरणानन्तरं सम्प्रति त्रयोदशसु राज्येषु चतुर्दश इन्क्यूबेटर-कार्यक्रमाः सञ्चाल्य-मानाः सन्ति, ये द्विसहस्राधिकान् एसएचजी-उद्यमान् सहयोगं प्रददति। अयं प्रयत्न: ग्रामीणमहिलाः केवलं निर्वाहस्तरीयकार्येभ्यः अग्रे नीत्वा उच्चव्यापारपरिमाणयुक्तानां, सुदृढविपण-सम्पर्कयुक्तानां तथा बृहद्परिमाणे रोजगारसृजनक्षमाणानां स्थायिनाम् उद्यमानां दिशि प्रेरयितुं सज्जीकृता अस्ति।
Hindusthan Samachar / Divya Ranjan