महाराष्ट्रे 13 खाद्य प्रतिष्ठानानाम् अनुज्ञापिपत्रं निलंबितम्
खाद्य सुरक्षा नियमानाम् उल्लंघने एफडीएपरतया कार्यवाही मुंबई, 22 अगस्तमासः (हि.स.)।अन्नसुरक्षायाः स्वच्छताविधानानां च गम्भीरोल्लङ्घनस्य प्रकरणे महाराष्ट्रस्य खाद्यौषधिप्रशासनेन राज्यस्य त्रयोदश खाद्यप्रतिष्ठानानां अनुज्ञापत्राणि पञ्जीकरणप्रमाणपत्राण
एफडीए-लोगो


खाद्य सुरक्षा नियमानाम् उल्लंघने एफडीएपरतया कार्यवाही मुंबई, 22 अगस्तमासः (हि.स.)।अन्नसुरक्षायाः स्वच्छताविधानानां च गम्भीरोल्लङ्घनस्य प्रकरणे महाराष्ट्रस्य खाद्यौषधिप्रशासनेन राज्यस्य त्रयोदश खाद्यप्रतिष्ठानानां अनुज्ञापत्राणि पञ्जीकरणप्रमाणपत्राणि च निलम्बितानि। राज्यस्य विभिन्नेषु नगरेषु कृतेषु निरीक्षणेषु खाद्यपदार्थानां भण्डारणे, स्वच्छतायां, तापमाननियन्त्रणे, खाद्यपदार्थानां च सम्प्रयोगे गम्भीराः न्यूनताः दृष्टाः, ततः अनन्तरम् एषा कार्यवाही कृता।

खाद्यौषधिप्रशासनस्य अधिकारिणां अनुसारं मुम्बईनगरे कुलाबास्थितस्य बॉम्बे प्रेसिडेन्सी रेडियो क्लब इत्यस्य, मैक्डॉनल्ड्सस्य, मालाडस्थितस्य नोवारायाः, नरीमन प्वाइण्टस्थितस्य स्टेटस् रेस्टोरेण्टस्य, खारस्थितस्य खार जिमखानस्य, सान्ताक्रूज़स्थितस्य बजरङ्ग स्वीट मार्टस्य, अन्धेरी पश्चिमस्थितस्य एएसएम होटल्स एण्ड हॉस्पिटैलिटी सर्विसेज इत्यस्य च विरुद्धं कार्यवाही कृता अस्ति। तदतिरिक्तं नागपुरस्थितस्य ड्यू ब्रदर्स शावरमायाः, नासिकस्थितस्य अवन्ती स्नैक्सस्य, अमरावतीस्थितस्य पिन्टू यादव स्वीट्स इत्यस्य च अनुज्ञापत्राणि निलम्बितानि। छत्रपतिसम्भाजीनगरस्य परभण्याश्च स्थितस्य छप्पन भोग थाली रेस्टोरेण्ट एण्ड बैंक्वेट हॉलस्य, म्हारो गायत्री मेवाड़ प्राइवेट लिमिटेड इत्यस्य, परभण्याः स्टार बेकरी इत्यस्य च विरुद्धमपि खाद्यसुरक्षानियमानाम् उल्लङ्घनस्य विषये कार्यवाही कृता अस्ति।

कुलाबास्थितस्य बॉम्बे प्रेसिडेन्सी रेडियो क्लब इत्यस्य पाकशालायाः निरीक्षणसमये बहुसंख्यकाः जीवितमक्षिकाः, मृताः तिलचट्टाः, विविधानि च कीटाः मुक्तरूपेण दृष्टाः। खाद्यौषधिप्रशासनस्य अनुसारं खाद्यपदार्थानां समीपे एव रसायनानां भण्डारणं कृतम् आसीत्, यदा केचन पात्राणि प्रत्यक्षं भूमौ स्थापितानि आसन्। निरीक्षणे खाद्यसुरक्षायाः स्वच्छतायाश्च नियमानां अनुपालने सप्तचत्वारिंशत्प्रतिशतम् अभावः दृष्ट इति ज्ञातम्।

तथैव खार जिमखानस्य निरीक्षणे खाद्यपदार्थानां सुरक्षितभण्डारणे, खाद्यतैलस्य गुणस्तरे, तापमाननियन्त्रणे, स्वच्छताव्यवस्थायां च अनेकाः न्यूनताः दृष्टाः। स्वच्छपात्रेषु मलिनजलस्य पतनम्, मलिनपात्राणि, सञ्चितं जलम्, खाद्यपदार्थानां नष्टता च इत्यादयः गम्भीराः अनियमितताः अपि दृष्टाः। एतासां न्यूनतानां कारणेन खार जिमखानस्य पञ्जीकरणप्रमाणपत्रं निलम्बितम्।

निलम्बनावधौ खाद्यव्यापारं स्थगितुं निर्देशः

खाद्यौषधिप्रशासनेन सर्वेभ्यः खाद्यप्रतिष्ठानेभ्यः निलम्बनावधौ खाद्यपदार्थानां क्रयणं, उत्पादनं, विक्रयणं, वितरणं च पूर्णतया स्थगितुं निर्देशः प्रदत्तः। प्रशासनेन चेतावनी प्रदत्ता यत् यदि खाद्यसुरक्षायाः स्वच्छताविधानानां च उल्लङ्घनं निरन्तरं भवति, तर्हि सम्बन्धितप्रतिष्ठानानां विरुद्धं अधिका कठोरा वैधानिकी कार्यवाही विधास्यते। खाद्यौषधिप्रशासनेन स्पष्टं कृतं यत् होटलानां, भोजनालयानां, खाद्यपदार्थविक्रयसम्बद्धानां प्रतिष्ठानानां च कृते स्वच्छतायाः, सुरक्षितभण्डारणस्य, खाद्यपदार्थानां सम्यक् सम्प्रयोगस्य च निर्धारितमानकानां कठोरतया पालनम् अनिवार्यम् अस्ति।

--------------------

Hindusthan Samachar / Dheeraj Maithani