Enter your Email Address to subscribe to our newsletters


धमतरी, २२ अगस्तमासः (हि.स.)। सन्तशिरोमणेः रविदासस्य ६५०तम्यां जयन्त्याः अवसरे भारतीयजनतापक्षस्य देशव्यापिनः कलशवन्दनाभियानस्य अन्तर्गतं भोथलीमण्डले द्विदिवसीया भव्यकलशयात्रा शनिवासरे प्रारब्धा। ग्राम-कानीडबरीतः प्रारब्धा यात्रा अमेठी, कलारतराई, बञ्जारी, परसुली, दर्री, खरेंगा, सारङ्गपुरी इत्यादीनि विविधानि ग्रामाणि अतिक्रम्य अगच्छत्। यात्रायां भारतीय-जनतापक्षस्य वरिष्ठ-पदाधिकारिणः, मण्डलपदाधिकारिणः, अभियानस्य प्रभारीजनाः, बहुसंख्याकाः कार्यकर्तारश्च सम्मिलिताः अभवन्।
ग्रामं ग्रामं प्राप्तायाः कलशयात्रायाः ग्रामीणैः उत्साहेन श्रद्धया च स्वागतं कृतम्। महिलाः शिरसि कलशान् धृत्वा यात्रायां सहभागितां कृतवत्यः, ग्रामीणैश्च पुष्पमालाभिः, नारिकेलेन, पूजार्चनया सन्तरविदासं प्रति श्रद्धा प्रकटिता। यात्रायाः समये सन्तरविदासस्य जीवनस्य, आदर्शानां, सामाजिकसमरसतायाः, समानतायाः, भक्तेः मानवसेवायाश्च सन्देशः जनं जनं प्रति प्रेषितः।
वक्तारः अवदन् यत् सन्तरविदासः समाजं भेदभावात् उपरि उत्थाय मानवतायाः, समानतायाः भ्रातृत्वस्य च मार्गे गन्तुं प्रेरितवान्। तस्य विचाराः अद्यापि सामाजिकैकतायै समरसतायै च प्रासङ्गिकाः सन्ति।
कार्यक्रमे छत्तीसगढशासनस्य पिछड़ावर्गायोगस्य अध्यक्षः नेहरू निषादः वरिष्ठः भारतीयजनतापक्षनेता सहकार-भारती-छत्तीसगढस्य मन्त्री च दयारामसाहू विशेषरूपेण उपस्थितौ आस्ताम्। उभाभ्यां सन्तरविदासस्य जीवनस्य विचाराणां च विषये प्रकाशं प्रसार्य उक्तं यत् तस्य सन्देशः केवलम् एकस्मै वर्गाय सीमितः नास्ति, अपि तु सम्पूर्णस्य मानवसमाजस्य कृते प्रेरणादायकः अस्ति। तस्य आदर्शानाम् आत्मसात्करणेन सामाजिकसमरसतां सुदृढराष्ट्रनिर्माणं च प्रति अग्रे गमनमेव तस्मै सत्या श्रद्धाञ्जलिः अस्ति।
भोथलीमण्डलाध्यक्षस्य मिस्त्रीलाल-पटेलस्य मार्गदर्शने कलशवन्द-नाभियानस्य संयोजकस्य हीरेन्द्रसाहोः संयोजने च यात्रायाः सञ्चालनं कृतम्।
यात्रायां गीतेश्वरीनिरञ्जनसाहुः, पहलाद-हिरवानी, शेखनलालसाहुः, ममतानिषादः, पूर्णिमा, रेणुकासाहुः, चोखेलालसाहुः, पङ्कजसाहुः, राजू-अग्निवंशी, माधवेन्द्र-हिरवानी, गोपाल-सिन्हा, विष्णुसाहुः, गौतमसाहुः, नरेशसाहुः, निर्मलासाहुः, धनुजाङ्गडे, अर्जुनसोनकरः, रघुसाहुः, मनोजसाहुः, भगवतीविश्वकर्मा, योगेश्वर-साहुः, तुकाराम-साहुः, राजेन्द्रभारती, छत्रपालडहरे, सोहनचक्रधारी, टीकारामः, रामकुमार-यादवः, लोकनाथसाहुः, चेतनयदुः इत्यादयः बहुसंख्याकाः भारतीयजनतापक्षस्य पदाधिकारिणः, कार्यकर्तारः ग्रामीणजनाश्च उपस्थिताः आसन्।
कलशयात्रायाः समये ग्रामं ग्रामं दृश्यं श्रद्धायाः उत्साहस्य च वातावरणं सन्तरविदासं प्रति जनमानसस्य आस्थां प्रदर्शयत्। महिलानां, यूनां ग्रामीणानां च सक्रियसहभागितया यात्रा विशेषाकर्षणं प्राप्तवती। भोथलीमण्डले प्रचलितं कलशवन्दनाभियानं सन्तरविदासस्य ‘मनः चङ्गं चेत् कठौतीमध्ये गङ्गा’ इत्यादीन् लोककल्याणकारीसन्देशान् सामाजिकसमरसतायाः विचारांश्च जनं जनं प्रति प्रेषयितुं महत्त्वपूर्णरूपेण प्रयत्नरूपेण समुपस्थितम् अभवत्।
Hindusthan Samachar / Divya Ranjan