Enter your Email Address to subscribe to our newsletters

भारतस्य विश्वस्य च इतिहासे अगस्तमासस्य त्रयोविंशतितमः दिवसः अनेकासां महत्त्वपूर्णानां घटनानां कृते प्रसिद्धः अस्ति। भारतस्य कृते अयं दिवसः विशेषगौरवस्य ऐतिहासिकसिद्धेश्च प्रतीकः अस्ति। वर्षे २०२३ तमे अस्मिन्नेव दिवसे भारतस्य चन्द्रयान् ३ इत्यनेन चन्द्रस्य दक्षिणध्रुवे सफलतया सौम्यावतरणं कृत्वा इतिहासः रचितः। अनेन सह भारतः चन्द्रपृष्ठे सफलतया अवतरणं कर्तुं समर्थानां विश्वस्य चतुर्थदेशः अभवत्। अपरतः चन्द्रस्य दक्षिणध्रुवीयक्षेत्रे अवतरणं कर्तुं भारतं विश्वस्य प्रथमं राष्ट्रम् अभवत्।
१४ जुलै २०२३ तमे वर्षे आन्ध्रप्रदेशस्य श्रीहरिकोटास्थितात् सतीशधवन-अन्तरिक्षकेन्द्रात् प्रक्षिप्तेन चन्द्रयान् ३ इत्यनेन स्वस्य चत्वारिंशद्दिवसानां दीर्घयात्रा २३ अगस्त २०२३ तमे वर्षे सायं षड्वादनात् चतुःमिनिटाधिके समये चन्द्रस्य दक्षिणध्रुवे विक्रम-अवतरणयन्त्रस्य सफलसौम्यावतरणेन पूर्णा कृता। एषा सफलता चन्द्रयान् २ इत्यस्य न्यूनताः ज्ञात्वा तासां सुधारं कृत्वा प्राप्ता।
चन्द्रयान् ३ इत्यस्य सफलतया भारतस्य अन्तरिक्षानुसन्धानक्षमता वैज्ञानिकप्रतिभा च सम्पूर्णस्य विश्वस्य समक्षं दृढतया प्रतिष्ठापिता। अस्य अभियानस्य सफलतायाः अनन्तरं देशे सर्वत्र उत्साहस्य गौरवस्य च वातावरणं निर्मितम्। चन्द्रयान् ३ इत्यस्य उपलब्धिः भारतीयान्तरिक्षकार्यक्रमस्य कृते महत्त्वपूर्णं मीलशिलापदं सिद्धा। अस्य ऐतिहासिकस्य सफलतायाः स्मरणीयत्वाय भारतसर्वकारेण अगस्तमासस्य २३ दिनाङ्कः राष्ट्रियान्तरिक्षदिवसरूपेण घोषितः। अयं दिवसः देशस्य वैज्ञानिकानां, अभियन्तॄणां, अन्तरिक्षानुसन्धाने सम्बद्धानां च सर्वेषां जनानां योगदानस्य सम्मानस्य अवसरं प्रददाति।
महत्त्वपूर्णाः घटनाः
१८२१ - मेक्सिकोदेशेन स्वातन्त्र्यस्य घोषणा कृता।
१८३९ - ब्रिटेनेन चीनदेशेन सह युद्धे हाङ्काङ्गप्रदेशः अधिकृतः।
१९१४ - जापानेन जर्मनीदेशस्य विरुद्धं युद्धस्य घोषणा कृता।
१९३९ - तत्कालीनसोवियतसङ्घस्य जर्मनीदेशस्य च मध्ये अनाक्रमणसन्धौ हस्ताक्षराणि कृतानि।
१९९९ - इस्रायलस्य फिलिस्तीनस्य च मध्ये मान्यतासम्बद्धेषु विषयेषु वार्ता पुनः प्रारब्धा।
२००२ - संयुक्तराज्यामेरिकादेशेन क्षेपणास्त्रप्रतिरक्षाप्रणाल्याः परीक्षणं स्थगितम्। इटलीदेशेन पाकिस्तानदेशे स्थितं वाणिज्यदूतावासं पिधातुं धमकी दत्ता।
२००३ - ब्राजीलदेशे प्रक्षेपणात् पूर्वमेव एकस्मिन् अन्तरिक्षयाने विस्फोटः जातः, येन न्यूनातिन्यूनं २१ जनाः मृताः।
२००७ - यूनेस्को संस्थायाः विश्वस्मृतिपञ्जीके वर्ष २००७ तमे ऋग्वेदस्य ३० पाण्डुलिपयः समाविष्टाः।
२००८ - झारखण्डस्य मुख्यमन्त्री मधुकोडा त्यागपत्रं दत्तवान्।
२०१२ - राजस्थानराज्ये अतिवृष्ट्या ३० जनाः मृताः।
२०१३ - लेबनानदेशस्य त्रिपोलीनगरे मस्जिदे कृते आक्रमणे ५० जनाः मृताः।
२०२३ - भारतस्य चन्द्रयान् ३ इत्यनेन चन्द्रस्य दक्षिणध्रुवे सफलतया सौम्यावतरणं कृत्वा इतिहासः रचितः।
जन्म
१९०२ - एच्. वी. आर्. अयङ्गारः - भारतीयारक्षितबैङ्कस्य षष्ठः गवर्नरः आसीत्।
१९१८ - अन्ना मणिः - भारतीयभौतिकशास्त्रज्ञा मौसमवैज्ञानिकाश्च आसीत्।
१९१८ - गोविन्दविनायककरन्दीकरः - मराठीभाषायां रचनां कुर्वन् प्रसिद्धः कविः लेखकश्च आसीत्।
१९२३ - बलरामजाखडः - काङ्ग्रेसपक्षस्य वरिष्ठः नेता आसीत्।
१९४४ - सायराबानो - प्रसिद्धा चलचित्राभिनेत्री आसीत्।
१९६८ - के. के. - प्रसिद्धः भारतीयः पार्श्वगायकः आसीत्।
१९९५ - तेजासज्जा - भारतीयः अभिनेता अस्ति।
निधनम्
१९७५ - विनायकरावपटवर्धनः - प्रसिद्धः शास्त्रीयसङ्गीतगायकः आसीत्।
१९९४ - आरतीसाहा - भारतस्य प्रसिद्धा महिला जलतरणपटुः आसीत्।
२००३ - ए. एन. मूर्तिरावः - कन्नडसाहित्यकारः आसीत्।
२०१३ - रघुवंशः - हिन्दीभाषायाः प्रसिद्धः साहित्यकारः आलोचकश्च आसीत्।
२०१८ - कुलदीपनय्यरः - भारतस्य प्रसिद्धः लेखकः पत्रकारश्च आसीत्।
महत्त्वपूर्णः दिवसः अवसरश्च
राष्ट्रियान्तरिक्षदिवसः
Hindusthan Samachar / Dheeraj Maithani