Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २२ अगस्तमासः (हि.स.)। गुरुगोविन्दसिंह-इन्द्रप्रस्थ-विश्वविद्यालयेन विश्वमशकदिवसस्य अवसरे “स्वच्छं पर्यावरणं, स्वस्थः समुदायः : बृहत्तर-प्रभावाय लघुपदानि” इति विषयाधारेण वाहकजनितरोगाणां निवारणं नियन्त्रणं च प्रति तान्त्रिकसङ्गोष्ठी आयोजिता। सङ्गोष्ठ्यां जलवायु-परिवर्तनस्य पर्यावरणीयपरिवर्तनानां च मध्ये मलेरियाडेङ्ग्यूसहितानां वाहक-जनितरोगाणां वर्धमानसमस्याया: विषये चर्चा कृता।
कार्यक्रमस्य आयोजनं शनिवासरे आईपीयू-संस्थायाः स्थायित्व-जलवायुपरिवर्तनकेन्द्रे, विश्वविद्यालयीय-पर्यावरणप्रबन्धनविद्यालये च आईसीएमआर-राष्ट्रीयमलेरिया-अनुसन्धानसंस्थानेन, कैराह-वुमेन-फाउण्डेशनेन, देहलीनगरनिगमेन च सहकारेण कृतम्। सङ्गोष्ठ्याः अध्यक्षतां यूएसईएम-संस्थायाः अधिष्ठाता प्रो. वरुणजोशी अकरोत्।
तान्त्रिकसत्रे स्वास्थ्यपरिवारकल्याण-मन्त्रालयस्य एनसीडीसी-संस्थायाः डॉ. आकाशश्रीवास्तवः “जलवायुप्रेरितं डेङ्ग्यू-मलेरियाजोखिमम्—वैश्विकतापनस्य प्रभावः” इति विषये मुख्यव्याख्यानं दत्तवान्। कैराह-वुमेन्-फाउण्डेशन इत्यस्य डॉ. रूपकुमारी जलवायुपरिवर्तनस्य, वाहकजनितरोगाणां समन्वितवाहक-नियन्त्रणस्य च मध्ये सम्बन्धस्य विषये स्वविचारान् प्रस्तुतवती।
सङ्गोष्ठ्यां “वन हेल्थ इन एक्शन” इति विषये परिसंवादोऽपि अभवत्। अस्य अध्यक्षतां सीएससीसी, यूएसईएम इत्यनयोः प्रमुखः प्रो. प्रोद्युतभट्टाचार्यः अकरोत्, यदा तु सहाध्यक्षतां प्रो. एन.सी. गुप्तः अकरोत्। सत्रस्य सञ्चालनं आईसीएमआर-आरएमआरसी गोरखपुरस्य पूर्वनिदेशकः तथा आईसीएमआर-संस्थायां रोगोन्मूलनस्य अध्यक्षः डॉ. रजनीकान्तः अकरोत्।
परिसंवादे टीसीआई-फाउण्डेशनस्य राष्ट्रीयतान्त्रिकप्रमुखः तथा एनआईएमआर-संस्थायाः पूर्ववैज्ञानिकः जी डॉ. रमेश सी. धीमानः, एनआईएमआर-आईसीएमआर-संस्थायाः वैज्ञानिकः जी डॉ. हिम्मतसिंहः तथा देहलीनगरनिगमस्य डॉ. अञ्जलिः भागं गृहीतवन्तः। विशेषज्ञैः वाहकनियन्त्रणं, जलवायुपरिवर्तनं, नगरीयपर्यावरणप्रबन्धनं सामुदायिक-सहभागितां च एकीकृत्य कार्यं कर्तुं आवश्यकता प्रतिपादिता।
कार्यक्रमस्य अवधौ मलेरियारोगस्य तथा वाहकजनितरोगाणां नियन्त्रणक्षेत्रे उल्लेखनीययोगदानाय “सर रोनाल्ड रॉस पुरस्कारः” राष्ट्रियवाहकजनितरोणनियन्त्रणकेन्द्रस्य, दिल्ली इत्यस्या: निदेशकायै डॉ. तनुजैनायै प्रदत्तः। तथैव वाहकनियन्त्रणक्षेत्रे उत्कृष्टतापुरस्कारः पश्चिमबङ्गालस्य आईडीएसपी-संस्थायाः राज्यकीटविज्ञान-विशेषज्ञायै डॉ. सूरजिता बनर्ज्यै प्रदत्तः।
छात्राणां कृते संवादात्मकसत्रस्य प्रश्नोत्तरप्रतियोगितायाश्च आयोजनमपि कृतम्। कार्यक्रमस्य अन्ते प्रमुखाः अनुशंसाः प्रस्तुताः पुरस्कारवितरणं च कृतम्।
सङ्गोष्ठ्याः समापनं जनस्वास्थ्य-संस्थानानां, पर्यावरणविशेषज्ञानां, अनु-सन्धानकर्तॄणां, समुदायानां नगरीय-प्राधिकरणानां च मध्ये सहयोगं सुदृढं कर्तुं आह्वानेन अभवत्। वक्तारः अवदन् यत् जलवायुसहिष्णूनां स्वस्थसमुदायानां निर्माणाय वाहकजनितरोगाणां निवारणे समये एव सामूहिकानि पर्यावरणानु-कूलानि च पदानि स्वीकर्तुं आवश्यकम् अस्ति।
Hindusthan Samachar / Divya Ranjan