आईआईएम जमशेदपुरस्य वार्षिक क्विजकार्यक्रमः 25 दिनांके
पूर्वी सिंहभूमः, 22 अगस्तमासः (हि.स.)।भारतीयधातुसंस्थानस्य (आईआईएम्) जमशेदपुरशाखायाः पक्षतः एकादशद्वादशकक्षयोः विद्यार्थिभ्यः १४ वी वार्षिकी धातुविज्ञानस्य पदार्थविज्ञानस्य च प्रश्नोत्तरी २५ अगस्त २०२६ दिनाङ्के आयोजयिष्यते। शनिवासरे प्राप्तस्य विव
प्रतीकात्मक फोटो


पूर्वी सिंहभूमः, 22 अगस्तमासः (हि.स.)।भारतीयधातुसंस्थानस्य (आईआईएम्) जमशेदपुरशाखायाः पक्षतः एकादशद्वादशकक्षयोः विद्यार्थिभ्यः १४ वी वार्षिकी धातुविज्ञानस्य पदार्थविज्ञानस्य च प्रश्नोत्तरी २५ अगस्त २०२६ दिनाङ्के आयोजयिष्यते।

शनिवासरे प्राप्तस्य विवरणानुसारं प्रतियोगिता अपराह्णे द्विवादने बर्मामाइन्सस्थितस्य राष्ट्रियधातुविज्ञानप्रयोगशालायाः सभागारे आयोजयिष्यते।

एषा वार्षिकी प्रश्नोत्तरी आईआईएम् जमशेदपुरशाखायाः शैक्षणिकप्रसारगतिविधीनाम् एकः भागः अस्ति। अस्याः उद्देश्यं विद्यालयीयविद्यार्थिनः धातुविज्ञानस्य पदार्थविज्ञानस्य च जगता परिचितान् कर्तुं तथा एतेषु विषयेषु तेषां रुचिं वैज्ञानिकजिज्ञासां च विकसितुं वर्तते। प्रतियोगितायाः माध्यमेन विद्यार्थिभ्यः धातूनां, मिश्रधातूनां, उन्नतपदार्थानां, पदार्थप्रौद्योगिक्याश्च आधुनिकसमाजे प्राविधिकविकासे च भूमिकां ज्ञातुं अवसरः प्राप्स्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani