पत्राकारविभागस्य प्रयत्नः : बालाभिर्निमितानि रक्षासूत्राणि सीम्नः सैनिकान् प्रधानमंत्रिणं च यावत् प्राप्नोत्
पूर्वी सिंहभूमः, 22 अगस्तमासः (हि.स.)। रक्षाबन्धनस्य अवसरे भारतीयडाकविभागस्य सिंहभूमडाकमण्डलेन बालकान् देशस्य सैनिकैः राष्ट्रियनेतृत्वेन च सह सम्बद्धान् कर्तुं विशेषः उपक्रमः प्रारब्धः। ‘रक्षासूत्रं निर्माय प्रेषयतु’ इत्यभियानस्य अन्तर्गतं नगरस्य
राखी बनाने वाले छात्र


राखी बनाने वाले छात्र


राखी बनाने वाले छात्र


पूर्वी सिंहभूमः, 22 अगस्तमासः (हि.स.)।

रक्षाबन्धनस्य अवसरे भारतीयडाकविभागस्य सिंहभूमडाकमण्डलेन बालकान् देशस्य सैनिकैः राष्ट्रियनेतृत्वेन च सह सम्बद्धान् कर्तुं विशेषः उपक्रमः प्रारब्धः। ‘रक्षासूत्रं निर्माय प्रेषयतु’ इत्यभियानस्य अन्तर्गतं नगरस्य विभिन्नेषु विद्यालयेषु रक्षासूत्रनिर्माणप्रतियोगिता आयोजिता, यस्यां बहुसंख्याकाः छात्राः छात्राश्च उत्साहपूर्वकं भागं गृहीतवन्तः।

टेल्को कदमा क्षेत्रयोः वैलीव्यूविद्यालये, गुलमोहर-उच्चविद्यालये, डीबीएमएस-कैरियर-अकादम्यां तथा डीबीएमएस-कदमाउच्चविद्यालये आयोजितेषु कार्यक्रमेषु विद्यार्थिभिः स्वकीयां सृजनात्मकप्रतिभां प्रदर्शिता। बालकैः पर्यावरणानुकूलसामग्रीभिः ‘अपशिष्टात् श्रेष्ठनिर्माणम्’ इति संकल्पनायाः आधारेण च आकर्षकाणि रक्षासूत्राणि निर्मितानि। एतानि रक्षासूत्राणि देशस्य सीमासु नियुक्तेभ्यः सैनिकेभ्यः, पुलिसकर्मिभ्यः प्रधानमन्त्रिणे च प्रेषितानि।

डाकविभागस्य पक्षतः विद्यालयपरिसरे एव विशेषाः पत्रावरणानि शीघ्रडाकसेवा च उपलब्धा कृता, येन विद्यार्थिभ्यः स्वनिर्मितानि रक्षासूत्राणि सन्देशांश्च प्रत्यक्षं प्रेषयितुं अवसरः प्राप्तः। अस्मिन् समये बालकेषु विशेषः उत्साहः दृष्टः।

टेल्कोस्थिते वैलीव्यूविद्यालये कार्यक्रमस्य उद्घाटनं डाकविभागस्य अधिकारी उज्ज्वलदासगुप्तः निशान्तकुमारश्च विद्यालयस्य प्राचार्या श्रीमती मिक्कीसिंहः उपप्राचार्यः जे. रमेशश्च दीपप्रज्वलनेन कृतवन्तः। विद्यार्थिभिः पारम्परिकया पर्यावरणानुकूलया च सामग्रीभिः रक्षासूत्राणि निर्मितानि। शनिवासरे कार्यक्रमस्य समापनावसरे पर्यावरणसंरक्षणस्य सन्देशं प्रदद्भिः विद्यार्थिभिः डाकविभागस्य अधिकारिभ्यः पादपाः अपि उपहाररूपेण प्रदत्ताः।

गुलमोहर-उच्चविद्यालये शताधिकाः विद्यार्थिनः रक्षासूत्रनिर्माणप्रतियोगितायां भागं गृहीतवन्तः। बालकैः स्वभ्रातृभ्यः अतिरिक्तं देशस्य प्रधानमन्त्रिणे सीमायां नियुक्तेभ्यः सैनिकेभ्यश्च रक्षासूत्राणि निर्मितानि। विद्यालये एव शीघ्रडाकसेवायाः सुविधा प्राप्तत्वात् विद्यार्थिभिः स्वसन्देशैः सह रक्षासूत्राणि प्रेषितानि।

डीबीएमएस-कैरियर-अकादम्यां कदमा इत्यत्र परीक्षाव्यस्ततायाः सत्त्वेऽपि प्रायः पञ्चाशत् विद्यार्थिनः अभियानस्य भागं गृहीतवन्तः। विद्यालयस्य प्राचार्या सोमा बनर्जी डाकविभागस्य उपक्रमस्य प्रशंसां कुर्वती उक्तवती यत् अनेन डिजिटलयुगे वर्तमानानां बालकानां पत्रलेखनस्य पारम्परिकडाकव्यवस्थायाश्च सह सम्बद्धतायाः अवसरः प्राप्यते।

तत्रैव डीबीएमएस-कदमा-उच्चविद्यालयेऽपि प्रायः पञ्चाशत् छात्राः छात्राश्च रक्षासूत्राणि निर्मितवन्तः। प्राचार्या गुरप्रीतभामरा कलाशिक्षिका निशाराजश्च उक्तवत्यौ यत् एतादृशाः कार्यक्रमाः बालकेषु पारिवारिकमूल्यानां सह देशस्य सैनिकानां प्रति सम्मानस्य कृतज्ञतायाश्च भावनां विकसितुं सहायका भवन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani