Enter your Email Address to subscribe to our newsletters

मंडी, 22 अगस्तमासः (हि.स.)।
कृषकप्रशिक्षणकेन्द्रे सुन्दरनगरे जाइका परियोजनायाः हमीरपुरजनपदैककस्य सौजन्येन स्वसहायतासमूहे भूमिकादायित्वे च इति विषये एकदिवसीयं प्रशिक्षणकार्यक्रमम् आयोजितम्। कार्यक्रमे हिमाचलप्रदेशस्य फसलविविधीकरणपरियोजनायाः द्वितीयचरणस्य अन्तर्गतं बिलासपुरम्, हमीरपुरम्, ऊना इति त्रिषु जनपदेषु ३६ प्रशिक्षवः भागं गृहीतवन्तः।
प्रशिक्षणसंयोजकः डॉ.सुधीरः प्रशिक्षार्थीनां स्वागतं कुर्वन् परियोजनायाः उद्देश्यानां, शाकसब्जोत्पादनस्य, स्वसहायतासमूहानां भूमिकायाश्च विषये विस्तृतां सूचनां प्रदत्तवान्। संसाधनव्यक्तिः सेवानिवृत्तः कृषिउपनिदेशकः डॉ.रविशर्मा, प्रशिक्षणाधिकारी डॉ.नरेशकुमारः तथा डॉ.अमरसिंहकौण्डलश्च स्वसहायतासमूहानां गठनसंवर्धनयोः, समूहस्य नियमानाम्, सञ्चयस्य, बैंकखातासञ्चालनस्य, क्षमतानिर्माणस्य, नेतृत्वविकासस्य, विवादसमाधानस्य च सहितं विविधेषु विषयेषु सूचनां प्रदत्तवन्तः।
प्रशिक्षणस्य समये समूहसभानाम् आयोजनस्य, आवश्यकदस्तावेजानां परिरक्षणस्य, पारदर्शितायाः, परस्परविश्वासस्य, सामूहिकनिर्णयप्रक्रियायाश्च महत्त्वे विशेषरूपेण बलं प्रदत्तम्। तथैव दलनिर्माणं महासङ्घेन सह सम्बद्धता च समूहानां सुदृढीकरणाय आवश्यकौ इति प्रतिपादितम्। प्रशिक्षार्थिभ्यः कृषिविभागस्य विविधयोजनानां, अभिसरणस्य, अङ्कीकरणस्य च विषये अपि सूचना प्रदत्ता।
प्रशिक्षार्थिभिः परियोजनायाः कार्यान्वयनस्य समये सम्मुखीभूतानां समस्याणां तासां समाधानस्य च विषये स्वीयानुभवाः परस्परं संविभक्ताः। कृषकप्रशिक्षणकेन्द्रस्य उपप्रधानाचार्यः डॉ.जगदीशकुमारजनजिहाः संवादमाध्यमेन प्रशिक्षणात् प्राप्तस्य लाभस्य विषये सूचनां प्राप्तवान् तथा सर्वेषां प्रशिक्षार्थीनां प्रति आभारं व्यक्तवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani