छातना-सुपर-स्पेशियलिटी-चिकित्सालये अत्याधुनिकस्य ईएनटी-माइक्रोस्कोप इत्यस्य उद्घाटनम्
पुरुलिया, २२ अगस्तमासः (हि.स.)। जनपदस्य छातना-सुपर-स्पेशियलिटी-चिकित्सालये अत्याधुनिकस्य ईएनटी-शल्यचिकित्सकीयस्य डिजिटल-माइक्रो-स्कोप-यन्त्रस्य सुविधा प्रारब्धा अस्ति। विधायकस्य सत्यनारायण-मुखो-पाध्यायस्य प्रयासेन प्रायः पञ्चदश-लक्षरूप्यकाणां व्यय
ई इन टी वार्ड क उद्घाटन करते मिनिस्टर


पुरुलिया, २२ अगस्तमासः (हि.स.)।

जनपदस्य छातना-सुपर-स्पेशियलिटी-चिकित्सालये अत्याधुनिकस्य ईएनटी-शल्यचिकित्सकीयस्य डिजिटल-माइक्रो-स्कोप-यन्त्रस्य सुविधा प्रारब्धा अस्ति। विधायकस्य सत्यनारायण-मुखो-पाध्यायस्य प्रयासेन प्रायः पञ्चदश-लक्षरूप्यकाणां व्ययेन अस्य अत्याधुनिकस्य यन्त्रस्य आपूर्तिः, स्थापनं सञ्चालनं च प्रारब्धम् अस्ति।

शुक्रवासरे विधायकः सत्यनारायण-मुखोपाध्यायः रिबनं छित्त्वा नवयन्त्रस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरे चिकित्सालयस्य अधीक्षकः डॉ. तापस-कुमारमण्डलं, सहायकाधीक्षकः तमाल-बसुः, ईएनटी-विभागस्य चिकित्सकः डॉ. मनोमयखानः इत्यादयः अन्ये चिकित्सकाः स्वास्थ्यकर्मिणश्च उपस्थिताः आसन्।

विधायकः अवदत् यत् क्षेत्रस्य जनानां कृते आधुनिकचिकित्सासुविधाः तेषां समीपे एव उपलब्धाः भवेयुः इत्युद्देश्येन छातना-चिकित्सालयस्य आधारभूतसंरचनायाः विकासे विशेषं बलं दीयते। सः अवदत् यत् नूतनं माइक्रोस्कोप-यन्त्रं ईएनटी-चिकित्सायां जटिलशल्यक्रियासु च महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

ईएनटी-चिकित्सकः डॉ. मनोमयखानः अवदत् यत् नूतनप्रौद्योगिक्याः साहाय्येन रोगाणां परीक्षणं विभिन्नानां ईएनटी-शल्यक्रियाणां च क्षेत्रे पूर्वापेक्षया श्रेष्ठ-चिकित्सासुविधां प्रदातुं शक्यं भविष्यति।

चिकित्सालयस्य अधीक्षकः डॉ. तापस-कुमारमण्डलः अवदत् यत् अत्याधुनिकस्य उपकरणस्य समावेशेन ईएनटी-विभागस्य चिकित्सासंरचना अधिका सुदृढा जाता अस्ति। अनेन चिकित्सकाः रोगाणां परीक्षणे जटिल-शल्यक्रियायाः समये च आधुनिक-प्रौद्योगिक्याः लाभं प्राप्स्यन्ति तथा रोगिभ्यः श्रेष्ठचिकित्सासेवा प्रदातुं शक्यते।

नूतनस्य उपकरणस्य सञ्चालनारम्भेण कर्ण-नासिका-कण्ठसम्बद्धानां विभिन्नानां जटिलरोगाणां चिकित्सायै शल्यक्रियायै च छातना-सुपर-स्पेशियलिटी-चिकित्सालये पूर्वापेक्षया अधिकाः श्रेष्ठाः चिकित्सासुविधाः उपलब्धाः भविष्यन्ति इति अपेक्षा अस्ति।

Hindusthan Samachar / Divya Ranjan