मध्यप्रदेशस्य मुख्यमन्त्री अद्य नवदिल्ली इत्यत्र ईटी-वर्ल्ड-लीडर्स-फोरम इत्यत्र निवेशसम्भावनासु करिष्यति संवादम्
भोपालम्, २२ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शनिवासरे नवदिल्ली इत्यत्र प्रवासकाले ईटी-वर्ल्ड-लीडर्स-फोरम-२०२६ इत्यस्मिन् सम्मिलिष्यते। कार्यक्रमे मुख्यमन्त्री डॉ. यादवः मध्यप्रदेशस्य आर्थिक-औद्योगिक-विकासयात्रायाः, न
सीएम मोहन यादव (फाइल फोटो)


भोपालम्, २२ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शनिवासरे नवदिल्ली इत्यत्र प्रवासकाले ईटी-वर्ल्ड-लीडर्स-फोरम-२०२६ इत्यस्मिन् सम्मिलिष्यते। कार्यक्रमे मुख्यमन्त्री डॉ. यादवः मध्यप्रदेशस्य आर्थिक-औद्योगिक-विकासयात्रायाः, निवेशसम्भावनानां तथा राज्यं देशस्य प्रमुखविकासकेन्द्ररूपेण स्थापयितुं क्रियमाणानां प्रयासानां विषये स्वविचारान् प्रकटयिष्यति।

जनसम्पर्काधिकारी सञ्जयसक्सेनः सूचनां दत्त्वा अवदत् यत् नवदिल्ल्यां आयोजिते द्विदिवसीये ईटी-वर्ल्ड-लीडर्स-फोरम-२०२६ इत्यस्मिन् देशस्य विदेशस्य च प्रमुखाः उद्योगपतयः, नीतिनिर्मातारः तथा वैश्विकविशेषज्ञाः सहभागितां कुर्वन्ति। शुक्रवासरात् प्रारब्धे फोरम इत्यस्मिन् अद्य ‘एमपी : अनलॉकिंग द हार्ट ऑफ इण्डिया’ इति विषये विशेषं संवादसत्रम् आयोजितं भविष्यति। अस्मिन् मुख्यमन्त्री डॉ. यादवः मध्यप्रदेशस्य आर्थिक-औद्योगिक-विकासयात्रां निवेशसम्भावनाश्च राष्ट्रिया-न्ताराष्ट्रियनिवेशकानां तथा उद्योगजगतः प्रतिनिधीनां समक्षं प्रस्तोष्यति।

वस्त्रोद्योगक्षेत्रे मध्यप्रदेशे नूतनसम्भावनासु भविष्यति चर्चा

जनसम्पर्काधिकारिणः अनुसारम् ईटी-वर्ल्ड-लीडर्स-फोरमे मध्यप्रदेशस्य वस्त्रोद्योगक्षेत्राय अपि विशेषं स्थानं प्रदत्तम् अस्ति। अस्मिन् अद्य ‘वीविंग द फ्यूचर : बिल्डिंग एन इंटीग्रेटेड टेक्सटाइल वैल्यू चेन इन एमपी’ इति विषये विशेषं सत्रं भविष्यति। अस्मिन् उद्योगसचिवः जॉन किङ्ग्स्ली, ओरिएण्ट-क्राफ्ट-संस्थायाः संस्थापकः सुधीरधीङ्गरा तथा पीडब्ल्यूसी-इण्डियायाः रानेनबनर्जी च सहभागितां करिष्यन्ति। अस्मिन् सत्रे मध्यप्रदेशे एकीकृतवस्त्रोद्योग-मूल्य-शृङ्खलायाः विकासस्य, उद्योगानां विस्तारस्य तथा निवेशसम्भावनानां विषये चर्चा भविष्यति।

वैश्विक-आर्थिकपरिदृश्ये नूतनावसरेषु च मन्थनम्

जनसम्पर्काधिकारी सक्सेनः अवदत् यत् फोरमे कृत्रिमबुद्धिमत्ता, वैश्विकपूञ्जी, नूतनार्थव्यवस्था, ऊर्जासंक्रमणम्, व्यापारः तथा आपूर्तिशृङ्खला, भारत-अमेरिकयोः सम्बन्धाः तथा वैश्विकनिवेशः इत्यादिषु विषयेष्वपि प्रमुखानि सत्राणि आयोज्य-मानानि सन्ति। तेन आशा प्रकटिता यत् ईटी-वर्ल्ड-लीडर्स-फोरम-२०२६ मध्यप्रदेशस्य निवेशक्षमतां, औद्योगिका-वसरान् तथा विभिन्नेषु क्षेत्रेषु विद्यमानाः सम्भावनाः राष्ट्रीयस्य वैश्विकस्य च उद्योगजगतः समक्षं प्रभावीरूपेण प्रस्तोतुं महत्त्वपूर्णं मञ्चं सिद्धं भविष्यति।

Hindusthan Samachar / Divya Ranjan