Enter your Email Address to subscribe to our newsletters

हुगली, २२ अगस्तमासः (हि.स.)। पश्चिमबङ्गालसर्वकारस्य सार्वजनिक-स्वास्थ्य-अभियांत्रिकी-श्रम-विभागयोः राज्यमन्त्री भास्करभट्टाचार्यः शनिवासरे सामाजिक-माध्यमे एकेन सन्देशेन भारतविरोधि-शक्तीनां ‘डीप स्टेट्’ इत्यस्य च विषये चिन्तां प्रकटितवान्। तेन आरोपितं यत् यथा बाङ्गलादेशे युवानः कथितरूपेण विपथं नीताः, तथैव भारतस्य यून: अपि पथभ्रंशं कर्तुं प्रयासः क्रियते।
मन्त्रिणा स्वस्य फेसबुक-सन्देशे लिखितं यत् देशेन अस्य विषये गम्भीरतया विचारयितव्यं यत् अस्य ‘कॉक्रोच पार्टी’ इत्यस्य पृष्ठतः कः कार्यसूच्याः विषयः अस्ति। तेन दावितं यत् विदेशेषु स्थिताः भारतविरोधिशक्तयः देशस्य युवाशक्तिं विपथं नेतुम् प्रयासं कुर्वन्ति।
भास्करभट्टाचार्यः अवदत् यत् एतादृश्यः शक्तयः भारतस्य वर्धमानं सामर्थ्यं निवारयितुम् इच्छन्ति तथा च अस्य सम्बन्धः देशस्य युवासमाजस्य भविष्येन सह अस्ति। तेन बाङ्गलादेशस्य उदाहरणं दत्त्वा उक्तं यत् तत्र देशस्य भविष्यस्य हानिं कृत्वा अधुना कथितस्य ‘डीप स्टेट्’ इत्यस्य दृष्टिः भारतं प्रति अस्ति।
मन्त्रिणा स्वसन्देशे उक्तं यत् एतादृशानां प्रयासानां सफलतां न भवितुं दीयते। तेन देशस्य युवाशक्तिं भारतस्य भविष्यं च प्रति सतर्कतायाः आवश्यकता बलपूर्वकम् उक्ता।
तथापि मन्त्रिणा स्वसन्देशे ‘कॉक्रोच पार्टी’ तथा ‘डीप स्टेट्’ इत्येताभ्यां सम्बद्धानाम् आरोपाणां समर्थनाय विस्तृतानि तथ्यानि प्रमाणानि वा न प्रस्तुतानि।
Hindusthan Samachar / Divya Ranjan