Enter your Email Address to subscribe to our newsletters

दोषी इति निर्धारितः कश्चिदपि जनः न क्षम्यते : मुख्यमन्त्री
विद्यार्थिनां भविष्यं परीक्षाव्यवस्थायाः विश्वसनीयता च सर्वोपरि, परीक्षासु अनियमिततायाः विषये शून्यसहिष्णुतायाः नीतिः
रायपुरम्, २२ अगस्त (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः इन्दिरागान्धीकृषिविश्वविद्यालयस्य बी.एस्.सी. एग्रीकल्चर द्वितीयवर्षस्य कीटविज्ञानविषयस्य परीक्षायाः प्रश्नपत्रं परीक्षायाः पूर्वं सामाजिकमाध्यमस्य माध्यमेन प्रसारितमित्यस्य प्रकरणं अत्यन्तगम्भीरतया स्वीकृतवान्। मुख्यमन्त्रिणा स्पष्टं कृतं यत् प्रदेशे परीक्षाणां शुचिता, पारदर्शिता, विश्वसनीयता च कस्यामपि अवस्थायां न त्यक्ष्यन्ते। परीक्षाप्रक्रियाम् प्रभावितं कुर्वतां विद्यार्थिनां भविष्येन सह क्रीडां कुर्वतां च तत्त्वानां विरुद्धं कठोरं कार्यवाही करिष्यते।
मुख्यमन्त्री सायः प्रकरणस्य निष्पक्षायाः विस्तृतायाश्च अन्वेषणस्य निर्देशान् दत्तवान्। तस्य निर्देशानुसारं विश्वविद्यालयप्रशासनेन पञ्चसदस्यानां अन्वेषणसमितिः गठिता अस्ति। सहैव प्रकरणे तेलीबान्धापुलिसस्थानके अज्ञातस्य व्यक्तेः विरुद्धं प्रथमसूचनाप्रतिवेदनं पञ्जीकृतम् अस्ति। प्रकरणस्य प्राविधिकान्वेषणे साइबरप्रकोष्ठस्यापि सहायता स्वीक्रियते, येन प्रश्नपत्रस्य प्रसारणस्य सम्पूर्णां शृङ्खलां ज्ञातुं शक्येत।
मुख्यमन्त्री सायः उक्तवान् यत् राज्यसर्वकारः युवानां भविष्यसम्बद्धेषु प्रकरणेषु पूर्णया संवेदनशीलतया दृढतया च कार्यं करोति। नियुक्तिः भवतु अथवा शैक्षणिकी परीक्षा, तस्याः निष्पक्षतां विश्वसनीयतां च संरक्षितुं सर्वोच्चप्राथमिकता अस्ति। कस्यामपि अवस्थायाम् अनियमितता प्रकाशे आगते उत्तरदायित्वं निर्धारितं करिष्यते तथा दोषिणां विरुद्धं नियमानुसारं कठोरतमं कार्यवाही सुनिश्चितं करिष्यते।
मुख्यमन्त्री उक्तवान् यत् “परीक्षासु कस्यापि प्रकारस्य अनियमिततायाः प्रति अस्माकं सर्वकारस्य शून्यसहिष्णुतायाः नीतिः अस्ति। विद्यार्थिनां परिश्रमः, तेषां विश्वासः, तेषां भविष्यं च अस्माकं कृते सर्वोपरि अस्ति। अस्य प्रकरणस्य सम्पूर्णं रहस्यं ज्ञात्वा अन्वेषणं करिष्यते। प्रश्नपत्रं कुतः बहिः आगतम्, केन तत् प्रसारितम्, अस्मिन् केषां जनानां भूमिका आसीत् इति प्रत्येकं तथ्यं प्रकाशे आनेष्यते। दोषी यः कश्चिद् भवतु, सः न क्षम्यते।”
उल्लेखनीयं यत् इन्दिरागान्धीकृषिविश्वविद्यालयस्य बी.एस्.सी. एग्रीकल्चर द्वितीयवर्षस्य कीटविज्ञानविषयस्य परीक्षा २० अगस्तदिनाङ्के आयोजिता आसीत्। प्रदेशस्य २७ कृषिमहाविद्यालयानां प्रायः १२०० विद्यार्थिनः अस्यां परीक्षायां सम्मिलिताः आसन्। परीक्षायाः पूर्वं प्रश्नपत्रस्य सामाजिकमाध्यममञ्चस्य माध्यमेन प्रसारणस्य शिकायतः प्राप्ता आसीत्। प्रकरणस्य गम्भीरतां परीक्षायाश्च निष्पक्षतां च दृष्ट्वा विश्वविद्यालयप्रशासनेन परीक्षा निरस्ता अस्ति। निरस्ता परीक्षा सितम्बरमासस्य प्रथमसप्ताहे पुनः आयोजयिष्यते।
गठितया अन्वेषणसमित्या सामाजिकमाध्यमेषु प्रसारितस्य प्रश्नपत्रस्य परीक्षायाम् उपयुक्तेन मूलप्रश्नपत्रेण सह मेलनं कृत्वा एतदपि ज्ञास्यते यत् प्रश्नपत्रं सर्वप्रथमं कस्मात् स्रोतसः बहिः आगतम्, कैः माध्यमैः अग्रे प्रसारितम्, तस्य प्रसारः कुत्र यावत् अभवत् च। पुलिसविभागेन साइबरप्रकोष्ठेन च उपलब्धानां अङ्कीयसाक्ष्याणां अन्येषां तथ्यानां च आधारेण अन्वेषणं अग्रे वर्धयिष्यते।
मुख्यमन्त्री सायः सम्बद्धेभ्यः अधिकारिभ्यः अन्वेषणे कस्यामपि अवस्थायां प्रमादं न कर्तुं प्रकरणसम्बद्धानि सर्वाणि तथ्याणि प्रकाशे आनेतुं च निर्देशान् दत्तवान्। सः उक्तवान् यत् परीक्षाव्यवस्थायां विद्यार्थिनां अभिभावकानां च विश्वासं संरक्षितुं सर्वकारस्य शैक्षणिकसंस्थानां च महत्त्वपूर्णं दायित्वम् अस्ति। तादृशः कश्चिदपि क्रियाकलापः गम्भीरतया स्वीक्रियते, येन परिश्रमेण ईमानदारतया च परीक्षां ददतां विद्यार्थिनां हितं प्रभावितं भवेत्।
मुख्यमन्त्री विश्वविद्यालयप्रशासनाय भविष्यत्परीक्षासु प्रश्नपत्राणां गोपनीयतायाः सुरक्षाव्यवस्थायाश्च व्यापकं पुनरवलोकनं कर्तुं निर्देशान् अपि दत्तवान्। प्रश्नपत्रनिर्माणात् आरभ्य तस्य सुरक्षितरक्षणं, परीक्षाकेन्द्रपर्यन्तं प्रेषणं, परीक्षा आरभ्यते तावत् सम्पूर्णप्रक्रियायां आवश्यकाः सुरक्षोपायाः अधिकं सुदृढाः कर्तुं निर्देशितम्, येन एतादृशस्य घटनायाः पुनरावृत्तिः न भवेत्।
Hindusthan Samachar / Dheeraj Maithani