Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 22 अगस्तमासः (हि.स.)।
प्रधानमन्त्रिणा नरेन्द्रमोदिना शनिवासरे भारतीयजनतापक्षस्य नवनियुक्तेभ्यः सङ्गठनपदाधिकारिभ्यः सङ्गठनस्य नूतनदलस्य च शुभकामनाः प्रदत्ताः। सः सामाजिकसञ्चारमञ्चे एक्स इत्यत्र प्रकाशिते स्वकीये सन्देशे उक्तवान् यत् सङ्गठनस्य उपवेशनानि पक्षं सुदृढीकर्तुं जनैः सह सम्पर्कं अधिकं गभीरं कर्तुं च नूतनानां विचाराणां दृष्टिकोणानां च अवसरं प्रददति।
प्रधानमन्त्रीमोदी उक्तवान् यत् तस्य पक्षसहयोगिभिः नूतनसङ्गठनदलेन च सह उत्कृष्टः संवादः कर्तुं सुअवसरः प्राप्तः। सः सङ्गठनस्य नूतनदलस्य सर्वेभ्यः सदस्येभ्यः शुभकामनाः प्रदाय आशां व्यक्तवान् यत् नूतनं दलं पक्षं अधिकं सुदृढीकर्तुं जनसेवायाः सङ्कल्पं च अग्रे नेतुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
प्रधानमन्त्रिणः अयं सन्देशः भारतीयजनतापक्षस्य नूतनस्य राष्ट्रियसङ्गठनदलेन आयोजितायाः दीर्घकालिकसभायाः अनन्तरम् आगतः। पक्षस्य नूतनदले सम्मिलितैः पदाधिकारिभिः सह कृतः संवादः सङ्गठनस्य सुदृढीकरणस्य, नूतनविचाराणां विकासस्य, जनैः सह पक्षस्य सम्पर्कं अधिकं व्यापकं कर्तुं च दिशि महत्त्वपूर्णः मन्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani