नवदिल्ली इत्यत्र नवम्यां अक्टोबरमासे राजस्थानी-लोकनृत्यस्य चित्रकलायाश्च प्रतियोगिता भविष्यति
नवदिल्ली, २२ अगस्तमासः (हि.स.)। नवदिल्ल्यां स्थिते रशियन-सेण्टर-ऑफ-साइन्स-एण्ड-कल्चर इत्यस्मिन् केन्द्रे नवम्यां अक्टोबरमासे चतुस्त्रिंशत्तमा राजस्थानी-लोकनृत्यप्रतियोगिता, दशमः सुभाषलखोटिया-श्रवणकुमारपुरस्कारः तथा चतुर्दशतमा राजस्थानी-चित्रकला-प्र
राजस्थानी अकादमी के छात्र कलाकार


नवदिल्ली, २२ अगस्तमासः (हि.स.)। नवदिल्ल्यां स्थिते रशियन-सेण्टर-ऑफ-साइन्स-एण्ड-कल्चर इत्यस्मिन् केन्द्रे नवम्यां अक्टोबरमासे चतुस्त्रिंशत्तमा राजस्थानी-लोकनृत्यप्रतियोगिता, दशमः सुभाषलखोटिया-श्रवणकुमारपुरस्कारः तथा चतुर्दशतमा राजस्थानी-चित्रकला-प्रतियोगिता च आयोजयिष्यते। इयं सूचना राजस्थानी-अकादम्याः अध्यक्षेन डॉ. गौरवगुप्तेन प्रदत्ता।

तेन उक्तं यत् राजस्थानी-लोकनृत्यप्रतियोगितायाः माध्यमेन राजस्थानस्य विभिन्नानाम् अञ्चलानां लोकनृत्यपरम्पराः राष्ट्रिय-राजधान्यां प्रस्तुतुं अवसरः प्राप्स्यते। कलाकाराः स्वप्रस्तुतीनां माध्यमेन राजस्थानस्य विविधाः लोकसंस्कृतीः, वेशभूषाः, लोकधुनयः तथा पारम्परिकनृत्यशैल्यः मनोहररूपेण प्रदर्शयिष्यन्ति। अनेन दिल्ली इत्यत्र निवसतां प्रवासी-राजस्थानी-परिवाराणां सह अन्यराज्यानां कला-प्रेमिणाम् अपि राजस्थानस्य सांस्कृतिक-परम्परां समीपतः ज्ञातुं अवसरः प्राप्स्यते।

अस्मिन् अवसरे आयोज्यमानायां चतुर्दशतमे राजस्थानी-चित्रकला-प्रतियोगितायाम् अपि कलाकाराः राज-स्थानस्य लोकजीवनपरम्पराः, ग्रामीण-परिवेशम्, लोकदेवतान्, मेलापकान्-उत्सवान् तथा सांस्कृतिकपरम्परां स्वकलामाध्यमेन पट्टिकायां चित्ररूपेण अङ्कयिष्यन्ति। प्रतियोगितायाः उद्देश्यं युवानः उदयमानांश्च चित्रकारान् प्रोत्साहितुं तथा राजस्थानीकलायाः विशिष्टशैल्यै व्यापकं मञ्चं प्रदातुम् अस्ति।

सुभाषलखोटिया-श्रवणकुमारपुरस्कारेण समाजस्य संस्कृतेश्च क्षेत्रे उल्लेखनीयं योगदानं ददतां तेषां प्रतिभावतां व्यक्तित्वानां सम्मानस्य परम्परा अग्रे वर्ध्यते, ये स्वमातापित्रोः निःस्वार्थभावेन सेवां कुर्वन्ति।

राजस्थानी-लोकसंस्कृतेः, कलायाः परम्पराणां च देशस्य राजधान्यां नूतनवंशाय यावत् प्रसारणाय तथा प्रवासी-राजस्थानिजनान् स्वमृत्तिकायाः संस्कृत्या सह संयोजयितुं प्रतिवर्षम् अयम् आयोजनं क्रियते। राजस्थानस्य समृद्धा लोकसंस्कृतिः देशे विदेशे च स्वस्य विशिष्टं परिचयं धारयति। लोकनृत्यम्, लोक-सङ्गीतम्, चित्रकला तथा पारम्परिक-कलाः राजस्थानस्य सांस्कृतिकपरम्परायाः जीवन्ताभिव्यक्तयः सन्ति।

Hindusthan Samachar / Divya Ranjan