अपक्व-कांवड़ियामार्गे विकीर्णाः श्रद्धायाः वर्णाः, पश्चिमबङ्गालस्य श्रद्धालूनां विशिष्टः सन्देशः
भागलपुरम्, २२ अगस्तमासः (हि.स.)। श्रावणस्य पवित्रे मासे सुल्तानगञ्जस्य नमामि गङ्गा-घाटः श्रद्धायाः सागरे निमग्नः अस्ति। देशस्य विभिन्नेभ्यः कोणेभ्यः आगच्छतां शिवभक्तानां जयघोषैः सम्पूर्णं वातावरणं शिवमयं जातम्। अस्मिन्नेव समये सुल्तानगञ्जं देवघरं च
अनोखा कांवर


भागलपुरम्, २२ अगस्तमासः (हि.स.)। श्रावणस्य पवित्रे मासे सुल्तानगञ्जस्य नमामि गङ्गा-घाटः श्रद्धायाः सागरे निमग्नः अस्ति। देशस्य विभिन्नेभ्यः कोणेभ्यः आगच्छतां शिवभक्तानां जयघोषैः सम्पूर्णं वातावरणं शिवमयं जातम्। अस्मिन्नेव समये सुल्तानगञ्जं देवघरं च संयोजयति अपक्व-कांवड़िया-मार्गः श्रद्धालूनाम् उत्साहेन तेषां च विशिष्टैः कांवड इत्येतै: सर्वेषाम् आकर्षणस्य केन्द्रं वर्तते।

अपक्व-कांवड़िया-मार्गे अस्मिन् वर्षे पश्चिमबङ्गालात् आगतः शिवभक्तानां समूहः सर्वेषां ध्यानम् आकर्षयति। एतेषां श्रद्धालूनां द्वारा भगवत: भोलेनाथस्य मातुः पार्वत्याश्च अतीव सुन्दराः भव्याः च प्रतिमाः निर्मिताः, याः कांवडरूपेण सज्जीकृताः सन्ति। एतां विशिष्टां गुरुतरां च कांवडं स्कन्धे धृत्वा श्रद्धालवः ‘बोल बम्’ तथा ‘हर हर महादेव’ इति जयघोषान् कुर्वन्तः देवघरस्य दिशि अग्रे गच्छन्ति। अस्य कांवडस्य सर्वप्रमुखं वैशिष्ट्यम् अस्याः पर्यावरणानुकूलत्वम् अस्ति।

श्रद्धालवः अवदन् यत् एषा कांवडयात्रा पूर्णतया प्रकृतिं ध्यात्वा सज्जीकृता अस्ति। कांवडं प्रतिमाश्च अलङ्कर्तुं रञ्जयितुं च केवलं पर्यावरणानुकूलवर्णानाम् उपयोगः कृतः अस्ति, येन पर्यावरणस्य जलस्रोतसां वा कापि हानिः न भवेत्। मार्गेण गच्छन् प्रत्येकं कांवडिया तथा स्थानीयः नागरिकः अपि एतादृशम् अद्भुतं दृश्यं द्रष्टुं तत्र विरमति। पश्चिमबङ्गालस्य एतेषां शिवभक्तानां श्रद्धा, तेषां कठिनं पदयात्रायुक्तं गमनं तथा पर्यावरणं प्रति तेषाम् एषा विशिष्टा भावना मार्गे कौतूहलस्य प्रेरणायाश्च विषयः अभवत्। गङ्गाघाटात् आरभ्य कांवड़िया-मार्गपर्यन्तं श्रद्धायाः एतत् भव्यं रूपं द्रष्टुं जनानां महान् सम्मर्द: समुपागच्छति।

Hindusthan Samachar / Divya Ranjan