Enter your Email Address to subscribe to our newsletters

प्रयागराजः, 22 अगस्तमासः (हि.स.)।जिलाविद्यालयनिरीक्षकस्य डॉ.सन्तोषकुमाररायस्य निर्देशनानुसारं सेन्टएन्थोनीकॉन्वेन्टगर्ल्सइण्टरकॉलेज इत्यस्मिन् विद्यालये जनपदस्तरीयायै मण्डलस्तरीयायै च अन्तरविद्यालयीयबास्केटबॉलक्रीडाप्रतियोगितायै बालिकावर्गस्य चयनपरीक्षणम् आयोजितम्। चयनपरीक्षणे उत्कृष्टं प्रदर्शनं कृतवतीनां चतसृणां छात्राणां प्रदेशीयमाध्यमिकान्तरविद्यालयीयबास्केटबॉलक्रीडाप्रतियोगितायै चयनं कृतम्।
चयनितासु छात्रासु निष्षा, छवि, कनिष्का, जैस्मीन् च सम्मिलिताः सन्ति। एताः छात्राः चयनपरीक्षणस्य समये स्वीयेन क्रीडाकौशलेन उत्कृष्टप्रदर्शनेन च चयनकर्तॄन् प्रभावितवत्यः।
विद्यालयप्रशासनेन छात्राणां चयनं प्रति प्रसन्नता व्यक्तीकृत्य ताभ्यः आगामीप्रदेशीयप्रतियोगितायै शुभकामनाः प्रदत्ताः। विद्यालयस्य प्रधानाचार्या सिस्टरमेरीबशेला उक्तवती यत् छात्राणां चयनं विद्यालयस्य कृते गौरवस्य विषयः अस्ति। सा छात्राणां उज्ज्वलभविष्यस्य कामनाम् अकरोत्।
अस्मिन् अवसरे सोनिकागुप्ता, मीताविश्वासः इत्यादयः विद्यालयस्य शिक्षकाः शिक्षिकाश्च अन्ये जनाश्च उपस्थिताः आसन्। विद्यालयपरिवारेण चयनिताभ्यः छात्राभ्यः अभिनन्दनं प्रदत्तं तथा प्रदेशीयप्रतियोगितायां ताभिः उत्कृष्टं प्रदर्शनं करिष्यते इति आशा व्यक्तीकृता।
---------------
Hindusthan Samachar / Dheeraj Maithani