Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 22 अगस्तमासः (हि.स.)।सक्तेशगढस्थितात् परमहंसाश्रमात् सम्बद्धस्य सन्तस्य बाबामोतीलालमहाराजस्य शनिवासरे प्रातः प्रायः षड्वादने अशीतिवर्षीयायां वयसि देहावसानम् अभवत्। तस्य निधनस्य वार्तां श्रुत्वा आश्रमस्य अनुयायिषु क्षेत्रस्य जनानां च मध्ये शोकस्य लहरिः व्याप्ता। बहुसंख्याकाः श्रद्धालवः अन्तिमदर्शनार्थम् आश्रमं प्रति आगन्तुम् आरब्धवन्तः।
ज्ञातं यत् बाबामोतीलालमहाराजः दीर्घकालात् आश्रमेण सम्बद्धः आसीत्। सः सिद्धनाथदरी इत्यस्य समीपे स्थिते आश्रमे निवसन् आध्यात्मिकसाधनां करोति स्म। स्वस्य सरलतया, सहजव्यवहारेण आध्यात्मिकविचारैश्च सः क्षेत्रे विशेषसम्मानं प्राप्नोति स्म। शनिवासरे प्रातः तेन देहत्यागः कृत इति सूचना प्राप्तमात्रे आश्रमपरिसरे श्रद्धालूनां समागमः प्रारब्धः। अनुयायिभिः तस्मै भावपूर्णा श्रद्धाञ्जलिः समर्पिता तथा तेन निर्दिष्टे आध्यात्मिकमार्गे चलितुं सङ्कल्पः कृतः।
आश्रमपरिवारस्य पक्षतः विधिविधानपूर्वकं बाबामोतीलालमहाराजस्य आश्रमपरिसरस्य समीपे एव समाधिः प्रदत्ता। समाधिसंस्कारस्य समये वातावरणं भावुकमभवत् तथा श्रद्धालूनां नेत्राणि अश्रुपूर्णानि दृश्यन्ते स्म। तस्य निधनात् आश्रमपरिवारेण अनुयायिभिश्च सन्तपुरुषस्य वियोगः अनुभूतः।
---------------
Hindusthan Samachar / Dheeraj Maithani