Enter your Email Address to subscribe to our newsletters

देहरादूनम्, २२ अगस्तमासः (हि.स.)। मुख्यमन्त्रिणः पुष्करसिंहधामिनः प्रयत्नानुसारं प्रारब्धस्य ‘मम स्वप्नानां उत्तराखण्डम्’ अभियानस्य राज्यव्यापि विद्यार्थिभिः व्यापकं समर्थनं प्राप्यते। अधुना पर्यन्तं एकादश- द्वादशकक्षयोः २.५ लक्षाधिकाः विद्यार्थिनः पटल-माध्यमेन निबन्धान् विचारांश्च प्रेषयित्वा उत्तराखण्डस्य भविष्यं प्रति स्वकीयां दृष्टिं प्रकाशितवन्तः।
मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् विद्यार्थिनां विचाराः अद्यतनस्य उत्तराखण्डस्य विकासाय नूतनां दिशां प्रदातुं सामर्थ्यं धारयन्ति। युवानां उत्तमान् व्यावहारिकान् च सुझावान् प्रदेशस्य विकासे समावेशयिष्यते तथा च युवा यं उत्तराखण्डं स्वप्ने पश्यति, तस्य साकारकरणे तान् सहभागीकारयिष्यते।
मुख्यमन्त्रिणा दशम्यां अगस्तमासे प्रदेशस्य प्रायः त्रिलक्षं विद्यार्थिभिः सह अन्तर्जाल-संवादस्य समये आह्वानं कृतमासीत् यत् ते कथयन्तु यत् अग्रिमेषु वर्षेषु उत्तराखण्डं केन रूपेण द्रष्टुम् इच्छन्ति। ततः परं सर्वकारीयेषु निजीयेषु च विद्यालयेषु पठन्तः विद्यार्थिनः अभियाने उत्साहपूर्वकं सहभागितां कृतवन्तः।
विद्यार्थिभिः पर्यटनम्, रोजगारः, सामाजिकविकासः, वनं पर्यावरणं च, शिक्षा, स्वास्थ्यं, प्रौद्योगिकी इत्यादिषु अष्टसु प्रमुखविषयेषु स्वकीयाः विचाराः सुझावाश्च प्रदत्ताः। अभियानस्य अन्तर्गतं प्राप्ताः निबन्धाः नववंशस्य आकाङ्क्षाणां भविष्यस्य उत्तराखण्डं प्रति तस्याः चिन्तनस्य च महत्त्वपूर्णं दस्तावेजं मन्यन्ते। अभियाने १४० श्रेष्ठविचाराणां चयनं करिष्यते। चयनितविद्यार्थिभ्यः शासनस्य वरिष्ठाधिकारिभिः सचिवैश्च सह स्वविचाराणां विषये चर्चां कर्तुं अवसरः प्रदास्यते। मुख्यमन्त्री धामी अपि एतेषां विद्यार्थिनां स्वयमेव संवादं कृत्वा तेषां दृष्टिकोणम् अनुभवान् च श्रोष्यति। श्रेष्ठविद्यार्थिभ्यः वृत्तिजीवनस्य प्रतियोगी-परीक्षाणां च सिद्धतायै सहयोगेन सह अन्ये पुरस्काराः अपि प्रदास्यन्ते।
पोर्टले निबन्धं समर्पयद्भ्यः विद्यार्थिभ्यः अङ्कीयप्रमाणपत्रमपि प्रदीयते। पर्वतीयानां क्षेत्राणां तथा सर्वकारीय-निजीयविद्यालयानां विद्यार्थिनः अपि अभियाने सहभागितां कुर्वन्ति। अभियानस्य संयोजकः डॉ. राहुल-अग्रवालः अवदत् यत् नववंशं राज्यस्य विकास-प्रक्रियया नीतिनिर्माणस्य चिन्तन-प्रक्रियया च प्रत्यक्षरूपेण योजयितुम् एषा अभिनवप्रयत्न: अस्ति। सः अवदत् यत् प्रविष्टयः निरन्तरं प्राप्यमाणाः सन्ति तथा च चतुर्विंशतितमे अगस्तमासे निबन्ध-समर्पणस्य अन्तिमतिथिः निर्धारितास्ति।
मुख्यमन्त्री धामी अभियानस्य नियमित-रूपेण समीक्षां करोति। सर्वकारस्य उद्देश्यम् अस्ति यत् युवानः केवलं विकासयोजनानां लाभार्थिनः न भवन्तु, अपि तु विकसितस्य उत्तराखण्डस्य संकल्पनायां नीतिनिर्माणे च सक्रियसहभागिनः भवन्तु।
Hindusthan Samachar / Divya Ranjan