Enter your Email Address to subscribe to our newsletters

भागलपुरम्, २२ अगस्तमासः (हि.स.)। भागलपुरस्य उत्तरबिहारस्य च मध्ये प्रतिदिनं यात्रां कुर्वतां सहस्रशः सामान्यजनानां कृते महत्त्वपूर्णा वार्ता अस्ति। अस्य मार्गस्य जीवनरेखारूपेण मन्यमानस्य विक्रमशिलासेतोः पुनर्स्थापनस्य सज्जता अधुना अन्तिम-चरणं प्राप्तवती अस्ति।
सेतोः निर्माणकार्याय क्षतिग्रस्तानां भागानां च सुधारार्थं शीघ्रमेव तत्र अवरोधकानि स्थापयित्वा सेतुः पूर्णरूपेण पिहितः करिष्यते। पुनर्स्थापनस्य मुख्यकार्यस्य आरम्भात् पूर्वं सेतौ निर्मिताः चत्वारः अस्थायिनः बैली-सेतवः निष्कासयिष्यन्ते। एतदर्थं अग्रिमात् २९ अगस्तमासात् प्रक्रियां प्रारब्धुं सज्जता क्रियते।
अधिकारिणां मते एकस्य बैली-सेतोः सुरक्षितरूपेण निष्कासनाय तेन सम्बद्धायै सम्पूर्णायै प्रक्रियायै च प्रायः पञ्चतः षड्दिनानि यावत् समयः अपेक्षितः भवेत्। सुदृढसुरक्षाव्यवस्थानां मध्ये अस्मिन् काले अवरोधकानि स्थापयिष्यन्ते, येन सेतौ यातायातव्यवस्थायां महत् परिवर्तनं दृश्यते।
विक्रमशिलासेतोः येषु क्षतिग्रस्तभागेषु सम्प्रति बैली-सेतूनां साहाय्येन कथञ्चित् यातायातव्यवस्था सञ्चाल्यते, तेषु स्थानेषु अधुना प्रशासनस्य योजना सुदृढान् स्थायिनः इस्पातसेतून् निर्मातुम् अस्ति। अत एव मुख्यपुनर्स्थापनकार्यस्य गतिं वर्धयितुं पूर्वम् एतेषाम् अस्थायिसंरचनानां निष्कासनम् अनिवार्यं जातम्। बैली-सेतूनां निष्कासनानन्तरं सेतोः पूर्णरूपेण जीर्णोद्धारस्य पुनर्स्थापनस्य च मार्गः प्रशस्तः भविष्यति।
Hindusthan Samachar / Divya Ranjan