Enter your Email Address to subscribe to our newsletters

कोलकाता, २२ अगस्तमासः (हि.स.)। पश्चिमबङ्गालस्य उत्तरे रणनीतिकदृष्ट्या अत्यन्तं महत्त्वपूर्णस्य ‘चिकन नेक’ इति नाम्ना प्रसिद्धस्य सिलीगुडी-गलियारेण सह सम्बद्धां सुरक्षां प्रति केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे सिलीगुडी-नगरे उच्चस्तरीयां सभां कृतवान्। सभायां सीमासुरक्षां अधिकं सुदृढां कर्तुं, अवैधप्रवेशं पूर्णतया निरोद्धुं तथा सीमावर्तिक्षेत्रेषु सुरक्षाव्यवस्थां प्रौद्योगिकीदृष्ट्या सुदृढं कर्तुं विशेषं बलं दत्तम्।
सभायां राज्यस्य मुख्यमन्त्री शुभेन्दु-अधिकारी इत्यस्य अतिरिक्तं सशस्त्र-सीमाबलस्य, सीमासुरक्षाबलस्य तथा राज्यारक्षकदलस्य वरिष्ठाधिकारिणः उपस्थिताः आसन्। सभायां ‘त्रिकोणीय-सुरक्षाजाल’ इत्यस्य अन्तर्गतं समन्वितनिरीक्षणव्यवस्थां सुदृढां कर्तुं विशेषं बलं दत्तम्। शाहः स्पष्टतया अवदत् यत् उत्तरबङ्गालस्य सीमाभ्यः कस्यापि प्रकारस्य अवैधप्रवेशं न सहिष्यते।
सिलीगुडी-गलियारा भारतस्य कृते सामरिकदृष्ट्या अत्यन्तं महत्त्वपूर्णः अस्ति। अयं सङ्कीर्णः भूभागः देशस्य पूर्वोत्तर-राज्यानि शेषभारतस्य सह संयोजयति। अतः अस्य क्षेत्रस्य सुरक्षां प्रति केन्द्रसर्वकारः विशेषसतर्कतां वहति।
सभायां सीमायां शीघ्रमेव कण्टकवेष्टनस्य निर्माणकार्यं पूर्णं कर्तुं बलं दत्तम्। अस्य कृते आधुनिकप्रौद्योगिक्यायुक्तस्य त्रिस्तरीयसुरक्षातन्त्रस्य तथा स्मार्ट-कण्टकवेष्टनस्य निर्माणयोजनायाः विषये चर्चा कृता। सीमायां निरीक्षणव्यवस्थां अधिकं प्रभावशालिनीं कर्तुं एसएसबी इत्यस्मै निर्देशाः प्रदत्ताः।
पश्चिमबङ्गाले अर्वाचीनकाले पाकिस्तानस्य कृते गुप्तचरकार्यं कृतवन्तः इत्यारोपेण बहूनां जनानां ग्रहणं तथा उत्तरबङ्गालात् सन्दिग्धगतिविधीनां प्रकाशनं जातम्। ततः सीमासुरक्षां प्रति चिन्ता वर्धिता अस्ति। अपरतः समीपस्थे नेपालदेशेण मार्गेण भारतस्य अन्तः जालं निर्मातुं कृतस्य षड्यन्त्रस्य विषये प्राप्ताभिः गुप्तचर-सूचनाभिः अपि सुरक्षासंस्थानां चिन्ता वर्धिता अस्ति। अतः सिलीगुडी-गलियारे सुरक्षां अधिकं सुदृढां कर्तुं केन्द्रस्य विशेषं बलम् अस्ति।
सीमायां कण्टकवेष्टनस्य निर्माणार्थं भूमेः उपलब्धतायाः प्रक्रिया अपि त्वरिता कृता अस्ति। राज्यसर्वकारस्य सत्तां प्राप्तेः अनन्तरं प्रारम्भिकेषु पञ्चचत्वारिंशत्-दिनेषु सुरक्षाबलेभ्यः १,१२९ एकर-परिमिता भूमिः हस्तान्तरिता इति उक्तः अस्ति। तदतिरिक्तं २९ एकर-परिमितायाः भूमेः हस्तान्तरणस्य प्रक्रिया अपि प्रचलति। अनेन सीमायां कण्टकवेष्टनस्य निर्माणकार्यं द्रुतगत्या अग्रे गमिष्यति इति अपेक्षा अस्ति।
एतस्मात् एकदिनपूर्वं शुक्रवासरे अमितशाहः सिलीगुडी-नगरस्य रानीडाङ्गा-स्थिते एसएसबी-सङ्घटनस्य उत्तरबङ्गाल-सीमाक्षेत्रस्य मुख्यालये आयोजिते कार्यक्रमे भागं गृहीतवान्। अस्मिन् अवसरे प्रायः १८९ कोटिरुप्यकाणां व्ययेन निर्मीयमाणानां विविधानां प्रशासनिक-आवासीय-प्रौद्योगिकीय-मूलभूतसंरचनापरियोजनानाम् उद्घाटनं तथा शिलान्यासः कृतः।
सीमासुरक्षां सुदृढां कर्तुं राज्ये दश नवीनसीमाचौक्यनिर्माणस्य घोषणा अपि कृता अस्ति। तेषु द्वे चौकी इत्यत्र उत्तरबङ्गाले स्थापयिष्येते। मन्यते यत् एतेषां उपायानां माध्यमेन केन्द्रसर्वकारस्य मुख्यं लक्ष्यं सिलीगुडी-गलियारं अवैध-प्रवेशात् तथा अन्याभ्यः सुरक्षा-समस्याभ्यः पूर्णतया सुरक्षितं कर्तुम् अस्ति।
Hindusthan Samachar / Divya Ranjan