प्रधानमन्त्रिणः मोदी-महोदयस्य जन्मदिवसस्य उपलक्ष्ये भाजपया देशव्यापि-मासपर्यन्तं ‘सेवासङ्कल्पाभियानम्’
नवदिल्ली, २२ अगस्तमासः (हि.स.)। भारतीयजनतापक्षेण प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य १७ सितम्बरदिनस्य उपलक्ष्ये सम्पूर्णदेशे मासपर्यन्तं चलिष्यमाणस्य ‘सेवा-सङ्कल्पाभियानस्य’ घोषणा कृता अस्ति। मासपर्यन्तं चलिष्यमाणस्य अस्य महाभियानस्य अन्तर्
भाजपा के महामंत्री विनोद तावड़े


नवदिल्ली, २२ अगस्तमासः (हि.स.)। भारतीयजनतापक्षेण प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य १७ सितम्बरदिनस्य उपलक्ष्ये सम्पूर्णदेशे मासपर्यन्तं चलिष्यमाणस्य ‘सेवा-सङ्कल्पाभियानस्य’ घोषणा कृता अस्ति। मासपर्यन्तं चलिष्यमाणस्य अस्य महाभियानस्य अन्तर्गतं सेवापखवाडा, ‘सेवायां मम योगदानम्’, ‘सेवासेतु-अभियानम्’, ‘राष्ट्रिय-नवाचार-आह्वानम्’ इत्यादयः बहवः कार्यक्रमाः प्रदेशस्तरात् बूथस्तरपर्यन्तम् आयोजिताः भविष्यन्ति।

भाजपायाः राष्ट्रीयमहासचिवः सांसदः च विनोदतावडे शनिवासरे वार्ताहरसम्मेलने अवदत् यत् नूतनराष्ट्रीयदलस्य गठना-नन्तरं राष्ट्रीयपदाधिकारिणां प्रथमं सम्मेलनम् अभवत्। ततः प्रदेशाध्यक्षैः, सङ्गठनमहासचिवैः तथा राज्यस्तरीयदलैः सह कार्यशाला आयोजिता, यस्यां अग्रिम-अभियानस्य सज्जतायाः विषये चर्चा कृता।

तावडे अवदत् यत् भाजपा प्रतिवर्षं १७ सितम्बरदिनाङ्के प्रधानमन्त्रिणः मोदिनः जन्मदिवसस्य अवसरे सम्पूर्णदेशे ‘सेवा-पखवाडा’ इति कार्यक्रमम् आयोजयति। अस्मिन् वर्षे ७ अक्टोबरदिनाङ्के प्रधान-मन्त्रिणः मोदी-महोदयस्य गुजरातस्य मुख्यमन्त्रीपदस्य शपथ-ग्रहणस्य २५ वर्षाणि अपि पूर्णानि भविष्यन्ति। एतयोः उभयोः अवसरयोः दृष्ट्या पक्षेण मासपर्यन्तं चलिष्यमाणस्य राष्ट्रव्यापिनः ‘सेवा-सङ्कल्पाभियानस्य’ प्रारम्भं कर्तुं निर्णयः कृतः अस्ति। अभियानस्य अन्तर्गतं सम्पूर्णदेशे विविधाः सेवासम्बद्धाः जन-सम्पर्कसम्बद्धाश्च कार्यक्रमाः आयोजिताः भविष्यन्ति।

सः अवदत् यत् सेवासङ्कल्पाभियानस्य अन्तर्गतं अस्मिन् समये आङ्गनवाडी-केन्द्रेषु कार्यं कुर्वत्यः मातृभ्यः तासां सामाजिककार्याणां कृते सम्मानं प्रदास्यते। आङ्गनवाडीसेविका समाजे योजनानां लाभं जनसामान्यपर्यन्तं प्रापयितुं महत्त्वपूर्णां भूमिकां निर्वहति। अस्य कार्यक्रमस्य अन्तर्गतं सर्वासाम् आङ्गनवाडीकार्यकर्त्रीणां कृते विशेषः कार्यक्रमः आयोजितः भविष्यति। अस्य अन्तर्गतं भाजपा १४ लक्षाधिकान् आङ्गनवाडीकेन्द्रान् प्राप्स्यति तथा तत्र कार्यरताः महिलाः तासां सेवायै सम्मानिताः भविष्यन्ति।

विनोदतावडे अवदत् यत् अस्यैव अभियानस्य अन्तर्गतं ‘सेवायां मम योगदानम्’ इति कार्यक्रमः अपि आयोजितः भविष्यति। अस्य अन्तर्गतं युवभिः सह जनान् आह्वानं करिष्यते यत् ते सेवाकार्यं कुर्वन्तः काञ्चित् रील-चलच्चित्रिकां निर्माय सामाजिकमाध्यमेषु प्रसारयन्तु। स्वच्छता, क्षयरोगनिर्मूलनम् इत्यादीनां सेवाकार्याणां विषये कार्यकर्तारः जनान् प्रेरयिष्यन्ति यत् ते तादृशां रील-चलच्चित्रिकां निर्माय प्रसारयेयुः।

सः अवदत् यत् महाभियानस्य अन्तर्गतं ‘सेवासेतु-अभियानम्’ अपि चालिष्यते। अस्मिन् अभियानस्य अन्तर्गतं यावत् जनाः पात्राः सन्तः अपि सर्वकारीययोजनाभ्यः वञ्चिताः सन्ति, तेषां परिचयः कृत्वा तेभ्यः योजनानां लाभं प्राप्तुं साहाय्यं प्रदास्यते। अस्य कृते जनाः आवश्यकैः तथ्यै: सह खण्डस्तरे गत्वा आवेदनं कर्तुं शक्नुवन्ति।

तदतिरिक्तं राष्ट्रीय-नवाचार-आह्वानम् अपि आयोजितं भविष्यति, यस्मिन् युवभ्यः अनुसन्धानकार्यसम्बद्धाः प्रतियोगिताः आयोजिताः भविष्यन्ति। एताः प्रतियोगिताः बूथस्तरे, खण्डस्तरे, जनपदस्तरे तथा प्रदेशस्तरे आयोजिताः भविष्यन्ति। सः अवदत् यत् अस्य विषये अद्य राष्ट्रीयस्तरीया कार्यशाला आयोजिता अस्ति। अग्रिमेषु एकस्मिन् सप्ताहे अभियानस्य कार्यान्वयनसम्बद्धाः कार्यशालाः प्रदेशस्तरे, जनपदस्तरे तथा खण्डस्तरे आयोजिताः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan