Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २३ अगस्तमासः (हि.स.)। केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः अगस्तमासस्य २४-२५ दिना-ङ्कयोः नवदिल्ली इत्यत्र आयोज्यमाने नवमे राष्ट्रीयसुरक्षा-रणनीतिसम्मेलने भागं गृह्णीयात्। द्विदिवसीये सम्मेलने देशस्य राष्ट्रीय-सुरक्षासम्बद्धेषु सम-सामयिकेषु विषयेषु आव्हानेषु च सुरक्षाबलानां आरक्षकबलानां च ८५० तः अधिकाः अधिकारिणः विचारविमर्शं करिष्यन्ति।
राष्ट्रीयसुरक्षारणनीतिसम्मेलनस्य आयोजनम् अस्मिन् वर्षे संकररूपेण भविष्यति। अस्मिन् सम्मेलने अधिकारिणः प्रत्यक्षरूपेण अन्तर्जालमाध्यमेन च भागं ग्रहीष्यन्ति। सम्मेलने देशस्य विभिन्नानां सुरक्षाबलानां पुलिससङ्घटनानां च अधि-कारिणः राष्ट्रियसुरक्षासम्बद्धेषु महत्त्वपूर्णेषु विषयेषु चर्चां करिष्यन्ति।
द्विदिवसीये सम्मेलने परिवर्तमानस्य सुरक्षापरिदृश्यस्य मध्ये सम्मुखी-भूयमानानां आव्हानानां, तेषां निवारणस्य रणनीतेः, सुरक्षाव्यवस्थायाः च अधिकसुदृढीकरणसम्बद्धानां विषयाणां मन्थनं भविष्यति। सम्मेलने विभिन्नानां सुरक्षाबलानां आरक्षकबलानां च अधिकारिणां व्यापकः सहभागः भविष्यति।
Hindusthan Samachar / Divya Ranjan