राम मंदिरस्य शिखरे उन्नीतो नवीनो धर्मध्वजः
अयोध्या, 23 अगस्तमासः (हि.स.)। श्रीरामजन्मभूमितीर्थक्षेत्रन्यासेन श्रावणशुक्लपक्षस्य नवम्यां तिथौ पावनेऽवसरे अयोध्यायां स्थितस्य श्रीरामजन्मभूमिमन्दिरस्य मुख्यशिखरे नवीनधर्मध्वजः प्रफुल्लितः। मन्दिरस्य शिखरे लहरायमानः नवीनध्वजः श्रद्धालूनां कृते आ
राम मंदिरस्य शिखरे उन्नीतो नवीनो धर्मध्वजः


अयोध्या, 23 अगस्तमासः (हि.स.)।

श्रीरामजन्मभूमितीर्थक्षेत्रन्यासेन श्रावणशुक्लपक्षस्य नवम्यां तिथौ पावनेऽवसरे अयोध्यायां स्थितस्य श्रीरामजन्मभूमिमन्दिरस्य मुख्यशिखरे नवीनधर्मध्वजः प्रफुल्लितः। मन्दिरस्य शिखरे लहरायमानः नवीनध्वजः श्रद्धालूनां कृते आकर्षणस्य केन्द्रं जातः अस्ति। श्रीरामजन्मभूमितीर्थक्षेत्रन्यासेन नवीनध्वजस्य चित्राणि चलच्चित्राणि च रविवासरे प्रकाशितानि। मन्दिरस्य शिखरे नवीनधर्मध्वजस्य प्रफुल्लनस्य चित्राणि प्रकाशितानि अनन्तरं श्रद्धालुषु उत्साहस्य वातावरणं वर्तते।

Hindusthan Samachar / Dheeraj Maithani