राष्ट्रियान्तरिक्षदिवसे मुख्यमन्त्रिणा डा सरमया भारतस्य अन्तरिक्षक्षेत्रस्य उपलब्धयः प्रशंसिताः।
गुवाहाटी, 23 अगस्त (हि.स.)। असमस्य मुख्यमन्त्री डा हिमन्तविश्वशर्मा रविवासरे अन्तरिक्षानुसन्धानस्य अन्वेषणस्य च क्षेत्रे भारतस्य उपलब्धीनां प्रशंसां कुर्वन् चन्द्रयानत्रयस्य ऐतिहासिकसाफल्यं देशस्य वैज्ञानिकप्रौद्योगिकप्रगतेः महत्त्वपूर्णं सोपानमिति
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 23 अगस्त (हि.स.)। असमस्य मुख्यमन्त्री डा हिमन्तविश्वशर्मा रविवासरे अन्तरिक्षानुसन्धानस्य अन्वेषणस्य च क्षेत्रे भारतस्य उपलब्धीनां प्रशंसां कुर्वन् चन्द्रयानत्रयस्य ऐतिहासिकसाफल्यं देशस्य वैज्ञानिकप्रौद्योगिकप्रगतेः महत्त्वपूर्णं सोपानमिति उक्तवान्। राष्ट्रियान्तरिक्षदिवसस्य अवसरे सामाजिकमाध्यमेन प्रसारिते स्वकीयसन्देशे मुख्यमन्त्रिणा चन्द्रयानत्रयस्य साफल्ये योगदानं कृतवद्भ्यः वैज्ञानिकेभ्यः अनुसन्धानकर्तृभ्यश्च असाधारणयोगदानस्य कृते सम्मानं प्रकटितम्। तेन उक्तं यत् चन्द्रयानत्रयादृशाभिः उपलब्धिभिः वैश्विके अन्तरिक्षमानचित्रे भारतस्य क्षमताभ्यः विशिष्टा परिचितिः प्राप्ता अस्ति। सः आशां प्रकटितवान् यत् अन्तरिक्षक्षेत्रे भारतस्य एतादृश्यः सफलताः देशस्य युवावर्गं विज्ञानप्रौद्योगिकीनवाचाराणां क्षेत्रेषु अग्रे गन्तुं निरन्तरं प्रेरयिष्यन्ति।

------------

Hindusthan Samachar / Dheeraj Maithani