Enter your Email Address to subscribe to our newsletters

शिमला, २३ अगस्तमासः (हि.स.)। हिमाचलप्रदेशविधानसभायां वन्दे-मातरम्गीतस्य गायनं प्रति प्रचलितस्य विवादस्य मध्ये भारतीयजनतापक्षस्य विधायकदलेन रविवासरे शिमलानगरस्य ऐतिहासिके रिज-प्रांगणे प्रत्युत्तररूपेण विरोधप्रदर्शनं आयोजितम्। प्रतिपक्षनेतुः पूर्वमुख्यमन्त्रिणः च जयरामठाकुरस्य नेतृत्वे आयोजिते अस्मिन् कार्यक्रमे भाजपाविधायकैः सह शतशः कार्यकर्तारः अपि सम्मिलिताः। महात्मागान्धिनः प्रति-मायाः पुरतः प्रायः सार्धैकहोरापर्यन्तं चले अस्मिन् विरोधप्रदर्शने सामूहिकरूपेण वन्देमातरम्गीतस्य गायनं कृतम्। अस्मिन् अवसरे देशभक्तिपरैः गीतैः घोषैश्च सम्पूर्णं रिज-प्रांगणं प्रतिध्वनितम्।
जयरामठाकुरः सञ्चारमाध्यमैः सह वार्तालापे अवदत् यत् वन्देमातरम्गीतं भारतस्य स्वातन्त्र्यसङ्ग्रामस्य प्रेरणया स्वातन्त्र्यसेनानां त्यागबलिदानाभ्यां च सम्बद्धम् अस्ति। तेन उक्तं यत् स्वातन्त्र्यसङ्ग्रामकाले अनेन गीतेन जनानां मनसि देशभक्तिभावना जागरिता। भाजपाविधायकदलस्य मागः आसीत् यत् विधानसभायां वन्देमातरम्गीतस्य सम्मानपूर्वकं सम्पूर्णं गायनं कारयितव्यम्।
तेन आरोपितं यत् विधानसभायाः कार्यवाहीप्रारम्भात् पूर्वं सज्जीकृते कार्यक्रमे वन्देमातरम्गीतस्य उल्लेखः आसीत्, किन्तु पश्चात् तत् निष्कासितम्। भाजपाविधायकैः सदनस्य अन्तः एषः विषयः उत्थापितः, किन्तु तेषां मतानुसारं सर्वकारेण सकारात्मकं रुखम् अवलम्ब्य गतिरोधस्य स्थितिः निवारयितुं प्रयत्नं कर्तुं स्थाने सा स्थितिः उत्पन्ना।
जयरामठाकुरेण काङ्ग्रेसस्य १९३७ तमवर्षस्य निर्णयस्य अपि उल्लेखः कृतः। तेन उक्तं यत् तस्मिन् समये काङ्ग्रेसेन वन्देमातरम्गीतस्य केषाञ्चित् अंशानां राष्ट्रसमारोहेषु गायनस्य अनुशंसा कृता आसीत्। तेन १९३८ तमवर्षस्य एप्रिल-मासस्य षष्ठे दिनाङ्के जवाहर-लालनेहरूणा मोहम्मद-अलीजिन्नां प्रति लिखितस्य पत्रस्य अपि उल्लेखः कृतः तथा च उक्तं यत् तस्मिन् वन्देमातरम्गीतं प्रति उत्पन्नानाम् आपत्तीनाम् उल्लेखः आसीत्।
तेन उक्तं यत् स्वतन्त्रभारते वन्दे-मातरम्गीतस्य सम्मानस्य विषयः कस्यचित् राजनैतिकदलस्य निर्णयपर्यन्तं सीमितः न भवेत्। काङ्ग्रेसकार्यसमित्याः कश्चित् निर्णयः देशात् लोकतान्त्रिक-संस्थाभ्यश्च श्रेष्ठः भवितुं न शक्नोति। देशः संविधानस्य लोकतान्त्रिकव्यवस्थायाश्च अनुसारं चलति।
राष्ट्रगानस्य अपमानस्य आरोपः मिथ्या, विधानसभायाः दृश्यचित्रं सार्वजनिकं कर्तुं याचना
जयरामठाकुरेण भाजपाविधायकान् प्रति राष्ट्रगानस्य अपमानस्य काङ्ग्रेसनेतॄणाम् आरोपाः पूर्णतया मिथ्याः इति उक्तम्। तेन अवदत् यत् विधानसभायां राष्ट्रगानस्य समये सत्तापक्षस्य प्रतिपक्षस्य च सर्वे सदस्याः सम्मानपूर्वकं स्थित्वा राष्ट्रगाने सम्मिलिताः। ततः प्रतिपक्षेण वन्देमातरम्गीतस्य गायनस्य मागः उत्थापितः।
तेन उक्तं यत् भाजपाविधायकदलः विगतेषु त्रिषु दिवसेषु विधानसभायाः तस्याः कार्यवाह्याः दृश्यचित्रं याचते। अस्मिन् विषये विधानसभाध्यक्षेन सह साक्षात्कार: अपि कृत: अस्ति। प्रतिपक्षस्य सर्वैः विधायकैः विधानसभासचिवाय लिखित-रूपेण दृश्यचित्रं उपलब्धं कारयितुं याचना कृता, किन्तु अद्यावधि दृश्यचित्रं न उपलब्धं कृतम्।
जयरामठाकुरः अवदत् यत् यदि काङ्ग्रेसनेतॄणाम् आरोपेषु सत्यम् अस्ति, तर्हि विधानसभायाः सम्पूर्णकार्यवाहीयाः दृश्यचित्रं सार्वजनिकं कर्तव्यम्। तेन उक्तं यत् भाजपादलम् अस्मिन् विषये कानूनीविकल्पानाम् अपि विचारं करोति तथा आवश्यकता भवति चेत् उच्च-न्यायालयस्य द्वारं गन्तुं शक्यते।
तेन उक्तं यत् अस्मिन्नेव विवादे स्वसन्देशं दातुं भाजपाविधायकदलेन विधानसभायाः कार्यवाही न भवति यस्मिन् दिने महात्मा-गान्धिनः प्रतिमायाः पुरतः सामूहिकरूपेण वन्देमातरम्गीतस्य गायनं कृतम्।
Hindusthan Samachar / Divya Ranjan