Enter your Email Address to subscribe to our newsletters

जौनपुरम्,23 अगस्तमासः (हि.स.)। प्रजापिता ब्रह्माकुमारी ईश्वरीयसंस्थानस्य भगिन्यः रविवासरे उत्तरप्रदेशसर्वकारस्य क्रीडायुवकल्याणविभागस्य राज्यमन्त्रिणः स्वतन्त्रप्रभारस्य गिरीशचन्द्रयादवस्य कार्यालयं गत्वा तस्मै रक्षासूत्रं बबन्धुः। अस्मिन् अवसरे भगिनीभिः राज्यमन्त्रिणे भ्रातृभगिन्योः पवित्रसम्बन्धस्य सकारात्मकसंकल्पस्य च विषये सन्देशाः अपि प्रदत्ताः।
रविवासरे अपराह्णे प्रायः सार्धैकवादने आयोजिते कार्यक्रमे ब्रह्माकुमारीभगिनीभिः राज्यमन्त्री गिरीशचन्द्रयादवस्य हस्ते रक्षासूत्रं बद्ध्वा तस्मै मिष्टान्नं भोजितम्। ततः भगिनीभिः राज्यमन्त्रिणे कतिपयसूत्रवाक्यैः लिखितानि पत्राणि प्रदत्तानि तथा तेषु कस्यचित् एकस्य पत्रस्य चयनं कर्तुं कथितम्।
राज्यमन्त्रिणा एकस्य पत्रस्य चयनं कृतम्। यदा भगिनीभिः पत्रम् उद्घाट्य तस्मिन् लिखितं सन्देशं पठितं तदा तत्र लिखितम् आसीत् यत् भवन्तः असम्भवमपि कार्यं दृढनिश्चयेन सम्पूर्णं करिष्यन्ति। एतं सन्देशं श्रुत्वा सम्पूर्णं सभागारं करताडनध्वनिभिः गुञ्जितम् अभवत्। तत्र उपस्थितैः जनैः एतत् दृढसंकल्पस्य सकारात्मकचिन्तनस्य आत्मविश्वासस्य च प्रेरणादायकः सन्देशः इति कथितम्।
अस्मिन् अवसरे बीके रुचिः, बीके संगीता, बीके विनीताः, बीके सुनीता च सहिताः ब्रह्माकुमारीभगिन्यः राज्यमन्त्रिणे रक्षासूत्रं बद्ध्वा मिष्टान्नं भोजितवत्यः। ततः कार्यालयप्रभारी ब्रह्मेशशुक्लः, मनीषश्रीवास्तवः, कर्मचारी आशुतोषअस्थाना, आकाशः इत्यादीनां कार्यालयस्य अन्येषां कर्मचारिणां हस्तेष्वपि रक्षासूत्रं बद्ध्वा तेभ्यः मिष्टान्नं भोजितम्।--------------------
Hindusthan Samachar / Dheeraj Maithani