Enter your Email Address to subscribe to our newsletters

आगरमालवा, 23 अगस्तमासः (हि.स.)। मध्यप्रदेशस्य आगरमालवायां श्रावणमासस्य अन्तिमे सोमवासरे अगस्तमासस्य चतुर्विंशतितमे दिने श्रीबाबाबैजनाथमहादेवस्य राजसीवैभवेन भव्यशोभायात्रा आयोज्यते। अस्याः कृते सर्वाणि सज्जीकरणकार्याणि पूर्णानि सन्ति। अस्यां भव्यशाहीशोभायात्रायां बाबा बैजनाथः रजतपालक्यां विराजमानः सन् नगरस्य प्रजानां कुशलक्षेमं ज्ञातुं नगरभ्रमणाय निर्गमिष्यति।
भव्यशाहीशोभायात्रायां बहुसंख्याकानां श्रद्धालूनां समागमस्य सम्भावनां दृष्ट्वा जिलाप्रशासनेन आरक्षिणप्रशासनेन च जनसुरक्षा, यातायातव्यवस्था, वाहनस्थापनव्यवस्था तथा जनसमूहनियन्त्रणस्य सर्वाः आवश्यकाः प्रशासनिकव्यवस्थाः पूर्णाः कृताः सन्ति। शोभायात्रायाः शान्तिपूर्णतया सुव्यवस्थितरूपेण च आयोजनाय व्यापकाः सुरक्षाव्यवस्थाः कृताः सन्ति।
अतिरिक्तारक्षीअधीक्षकः रविन्द्रकुमारबोयटः रविवासरे सूचनां दत्त्वा उक्तवान् यत् बाबा बैजनाथस्य भव्यशाहीशोभायात्रायाम् आगच्छतां श्रद्धालूनां संख्यां दृष्ट्वा देवालयस्य मुख्यद्वारतः वाहनानां प्रवेशः प्रतिबन्धितः भविष्यति। मुख्यद्वारतः केवलं पादचारिणः श्रद्धालवः एव प्रवेशं प्राप्स्यन्ति। अशक्तानां, वृद्धानां, रोगिणां दिव्याङ्गानां च श्रद्धालूनां सुविधायै मुख्यद्वारतः स्वचालितत्रिचक्रिकायानैः प्रवेशस्य व्यवस्था भविष्यति।
उपखण्डदण्डाधिकारी मिलिन्दढोके इत्यनेन उक्तं यत् शाहीशोभायात्रा सोमवासरे मध्याह्नस्य द्वादशवादने त्रिंशन्मिनिटसमये श्रीबैजनाथमहादेवमन्दिरात् बेटखेड़ाग्रामतः प्रारभ्य नगरस्य प्रमुखमार्गैः कोटाउज्जयिनीमार्गः, छावणीनाका, झण्डाचत्वरम्, रातडियातडागः, नानाबाजारः, गोपालमन्दिरम्, सराफाबाजारः, सरकारवाडा, हाटपुरा, पुरातनचिकित्सालयचतुष्पथः, माधवगञ्जः इत्येतेषु मार्गेषु गमिष्यति। ततः पुरातनकृष्युपजमण्डीं गत्वा आगरमालवायां आरत्यनन्तरं शोभायात्रा सम्पन्ना भविष्यति।
आयोजनसमित्या सर्वेभ्यः धर्मप्रेमिभ्यः बन्धुभ्यः, भक्तजनेभ्यः, मातृभ्यश्च अधिकाधिकसंख्यया बजरङ्गध्वजैः, भजनमण्डलीभिः, ध्वजमण्डलीभिः, ढोलवाद्यैः, झाँकीभिः तथा आखाडैः सह शोभायात्रायां सम्मिलिताः भूत्वा धर्मलाभं प्राप्तुं आह्वानं कृतम्।------------
Hindusthan Samachar / Dheeraj Maithani