Enter your Email Address to subscribe to our newsletters

कोलकाता, 23 अगस्तमासः (हि. स.)।
पश्चिमबङ्गाले भाजपासर्वकारस्य शतदिनानि पूर्णानि अभवन्। अस्मिन् अवसरे भाजपायाः ग्रामीणविकासमन्त्री दिलीपघोषः सर्वकारस्य कार्याणां विवरणं प्रकाशितवान्। सः रविवासरे प्रातः समाजमाध्यमे एकं चलचित्रं प्रकाशित्य सर्वकारस्य शतदिनेषु प्राप्ताः उपलब्धीः गणितवान्। सः उक्तवान् यत् एतेषु शतदिवसेषु पञ्चायत्, आवासः, रोजगारः, स्वच्छता आधारभूतसंरचनानां विकासश्च इत्येतेषु विषयेभ्यः सम्बद्धाः बहवः महत्त्वपूर्णाः उपक्रमाः कृताः सन्ति।
घोषस्य अनुसारम् अपूर्णेषु अष्टादशलक्षगृहेषु द्वितीयचरणे दश लक्षविंशतिसहस्रलाभार्थिनां खातेषु षष्टिसहस्ररूप्यकाणां धनराशिः प्रेषिता अस्ति। अपरत्र आवास प्लस् इति सर्वेक्षणस्य अन्तर्गतं अष्टात्रिंशल्लक्षाधिकगृहाणां सर्वेक्षणं पूर्णं कृतम् अस्ति।
सः उक्तवान् यत् विभिन्नयोजनानां माध्यमेन रोजगारस्य अवसरान् वर्धयित्वा सामान्यजनानां समीपं कार्यम् आयं च प्रापयितुं प्रयासः क्रियते। आवासयोजनायाः प्रत्येकस्मिन् गृहेन सह नवतिश्रमदिवसानां कार्यं योजयितुं उपक्रमः कृतः अस्ति। अनेन सम्बद्धपरिवाराः अतिरिक्ततया सप्तविंशतिसहस्ररूप्यकाणि यावत् आयं प्राप्तुं शक्नुवन्ति।
दिलीपघोषः उक्तवान् यत् पञ्चायत् ग्रामविकासविभागस्य वनविभागस्य च सहयोगेन चत्वारिंशल्लक्षाधिकवृक्षाणां रोपणस्य लक्ष्यं निर्धारितम् अस्ति। ग्रामेषु शौचालयनिर्माणस्य कार्यमपि तीव्रं क्रियते।
तदतिरिक्तम् अनुपयोगिनां भवनानां, मण्डपानां, भाण्डागाराणां आपणानां च जीर्णोद्धारं कृत्वा तेषां पुनः भाटकेन दानस्य प्रक्रिया प्रारब्धा अस्ति। नूतनविपणिसङ्कुलानां आपणानां आवंटनस्य कार्यमपि पूर्णं कृतम् अस्ति।
घोषः उक्तवान् यत् सर्वकारस्य शतदिनानि केवलं कालगणना न सन्ति, अपितु कार्यस्य गतिः पश्चिमबङ्गालं परिवर्तनस्य दिशि अग्रे नेतुं च प्रारम्भः सन्ति।।
---------------
Hindusthan Samachar / Dheeraj Maithani