विश्वस्य सर्वतो महतः आदर्श चरित्रस्य ज्ञानवर्धको ग्रंथः रामायणम् : अरुण गोविलः
-मॉडर्न इत्येषां 5000 बालाः सामूहिक संगीते रामायण पाठं कृत्वा विभोराः नवादा, 23 अगस्तमासः (हि.स.)। तुलसीजयन्तीसप्ताहस्यावसरे रविवासरे नवादास्थिते कुँतीनगरपरिसरस्य मॉडर्न् इङ्ग्लिश् विद्यालये आयोजिते सङ्गीतमये सामूहिकरामायणपाठे मॉडर्न् समूहस्य प
उद्घाटन करते गोविल व मंत्री


-मॉडर्न इत्येषां 5000 बालाः सामूहिक संगीते रामायण पाठं कृत्वा विभोराः

नवादा, 23 अगस्तमासः (हि.स.)।

तुलसीजयन्तीसप्ताहस्यावसरे रविवासरे नवादास्थिते कुँतीनगरपरिसरस्य मॉडर्न् इङ्ग्लिश् विद्यालये आयोजिते सङ्गीतमये सामूहिकरामायणपाठे मॉडर्न् समूहस्य प्रायः पञ्चसहस्रं छात्रछात्राः एकस्मिन् समये रामायणस्य चौपाईनां सङ्गीतमयं पाठं कृत्वा सम्पूर्णं वातावरणं भक्तिमयं कृतवन्तः। कार्यक्रमे बहुसंख्यकाः अभिभावकाः अपि सम्मिलिताः अभवन्। कार्यक्रमस्य उद्घाटनं रामानन्दसागरस्य प्रसिद्धे रामायणधारावाहिके भगवान् श्रीरामस्य भूमिकां निर्वहता मेरठनगरस्य सांसदेन अरुणगोविलेन बिहारस्य कृषिमन्त्रिणा विजयकुमारसिन्हेन च संयुक्तरूपेण दीपप्रज्वालनं कृत्वा कृतम्।

मुख्यातिथिः अरुणगोविलः उक्तवान् यत् रामायणं विश्वस्य सर्वश्रेष्ठम् आदर्शचरित्रप्रदर्शकं ज्ञानवर्धकं च ग्रन्थम् अस्ति। रामायणं केवलं धार्मिकग्रन्थं न, अपि तु मनुष्यं श्रेष्ठतरं जीवनं यापयितुं आदर्शचरित्रस्य निर्माणं कर्तुं च शिक्षाप्रदं ग्रन्थम् अस्ति। तेन उक्तं यत् रामानन्दसागरेण दूरदर्शनधारावाहिकस्य माध्यमेन रामायणं गृहे गृहे प्रापयितुं ऐतिहासिकं कार्यं कृतम्। अद्यापि रामायणस्य आदर्शाः समाजं परिवारं च सम्यक् दिशं प्रति नेतुं समर्थाः सन्ति।

तेन उक्तं यत् यः जनः रामायणस्य सम्यक् प्रकारेण अध्ययनं कृत्वा तस्य आदर्शान् स्वजीवने आत्मसात्करिष्यति, सः श्रेष्ठतरः मनुष्यः भवितुं सह ईश्वरप्राप्तेः दिशायाम् अपि अग्रे गमिष्यति। तेन कथितं यत् स्वीयसंसदीयक्षेत्रे सः प्रायः पञ्चलक्षं गृहेषु रामायणं प्रापयितुं प्रयासं कृतवान्। अरुणगोविलेन मॉडर्न् समूहस्य अध्यक्षस्य डाॅ. अनुजकुमारस्य, सचिवस्य डाॅ. शैलेशकुमारस्य, माध्यमिकशिक्षकसङ्घस्य जिलाध्यक्षस्य अशोककुमारसिंहस्य, रञ्जीतकुमारस्य, सञ्जयकुमारस्य च प्रशंसां कृत्वा ते ‘पञ्चपाण्डवाः’ इति सम्बोधिताः। तेन उक्तं यत् एतादृशः विशालस्तरीयः बालकान् रामायणेन सह संयोजयन् कार्यक्रमः दुर्लभः अस्ति। एतादृशाः कार्यक्रमाः नवसन्ततौ संस्कारान् आदर्शविचारांश्च विकसितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।

कृषिमन्त्री विजयकुमारसिन्हा आयोजने प्रशंसां कुर्वन् उक्तवान् यत् रामायणसदृशैः कार्यक्रमैः सनातनसंस्कृतेः भारतीयजीवनमूल्यानां च मूलानि समाजे अधिकं सुदृढानि भविष्यन्ति। तेन उक्तं यत् भारतस्य संस्कृतौ परम्परायां च चरित्रनिर्माणस्य विशेषं महत्त्वम् अस्ति। बालकान् आधुनिकशिक्षया सह स्वसंस्कृत्या संस्कारैश्च संयोजयितुं आवश्यकम् अस्ति।

तेन विश्वासः प्रकटितः यत् एतादृशैः प्रयासैः भारतं कदाचित् विश्वगुरुरूपेण स्वकीयां परिचितिं अधिकं सुदृढां करिष्यति।

मॉडर्न् समूहस्य अध्यक्षः डाॅ. अनुजसिंहः अतिथीनां स्वागतं कुर्वन् उक्तवान् यत् विद्यालये गुणवत्तापूर्णशिक्षया सह बालकेषु आदर्शचरित्रस्य निर्माणमपि तेषां दायित्वम् अस्ति। तेन सूचितं यत् दशमकक्षायाः हिन्दीपाठ्यक्रमे समाविष्टात् ‘रामलक्ष्मणपरशुरामसंवादात्’ रामायणपाठस्य आरम्भं कृत्वा बालकानां सीतास्वयंवरपर्यन्तस्य कथाप्रसङ्गेन सह सम्बन्धः स्थापितः। अस्य उद्देश्यं रामायणस्य प्रसङ्गानां माध्यमेन बालकेभ्यः आदर्शजीवनमूल्यानां विषये ज्ञानं प्रदातुम् अस्ति।

कार्यक्रमस्य समये सहस्रशः बालकानां सामूहिकगायनेन वादनेन च सम्पूर्णः परिसरः भक्तिमयः अभवत्। छात्रछात्राभिः पुष्पवृष्टिं कृत्वा अतिथीनां स्वागतं कृतम्, येन अरुणगोविलः विजयकुमारसिन्हश्च अपि भावविभोरौ अभवताम्। अरुणगोविलः कार्यक्रमम् अनन्यं अनुकरणीयं च इति वर्णयन् आयोजकेभ्यः शुभकामनाः प्रदत्तवान्। आयोजनेन शिक्षया सह संस्कारस्य चरित्रनिर्माणस्य च सन्देशः प्रमुखतया प्रस्तुतः।

---------------

Hindusthan Samachar / Dheeraj Maithani