भाजपादलस्य राष्ट्रिये संगठनात्मके उपवेशने संगठन विस्तारे जनसेवायां प्रति बलम्
नव दिल्ली, 23 अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य नूतनराष्ट्रियसमित्याः प्रथमायाः प्रमुखायाः सङ्गठनात्मकसभायाः द्वितीयदिने अपि रविवासरे निर्वाचनसम्पन्नेषु प्रदेशेषु निर्वाचनसज्जतायाः, सङ्गठनस्य सुदृढीकरणस्य, मतदानकेन्द्रस्तरपर्यन्तं पक्षस्य विस्
संगठनात्मक बैठक में पार्टी अध्यक्ष नितिन नवीन


नव दिल्ली, 23 अगस्तमासः (हि.स.)।

भारतीयजनतापक्षस्य नूतनराष्ट्रियसमित्याः प्रथमायाः प्रमुखायाः सङ्गठनात्मकसभायाः द्वितीयदिने अपि रविवासरे निर्वाचनसम्पन्नेषु प्रदेशेषु निर्वाचनसज्जतायाः, सङ्गठनस्य सुदृढीकरणस्य, मतदानकेन्द्रस्तरपर्यन्तं पक्षस्य विस्तारस्य, देशस्य सर्वेषु भागेषु आयोज्यमानानां आगामीकार्यक्रमाणां च विषये विस्तरेण चर्चा कृता।

पक्षस्य मुख्यालये रविवासरे आयोजितायाः सभायाः अध्यक्षतां भाजपायाः राष्ट्रियाध्यक्षः नितिननवीनः कृतवान्। सभायां महामन्त्रिणः बी एल सन्तोषः, तरुणचुघः, विनोदतावडे, स्मृतिईरानी इत्यादयः अनेकाः पदाधिकारिणः तथा विभिन्नप्रदेशानां प्रदेशाध्यक्षाः प्रदेशप्रभारिणश्च उपस्थिताः आसन्। सभायां बिहारभाजपायाः प्रदेशाध्यक्षः सञ्जयसारावगी तथा प्रदेशसङ्गठनमहामन्त्री भीखूभाईदलसानिया अपि सहभागितां कृतवन्तौ।

सूत्रानुसारं सभायां वरिष्ठनेतृभिः सङ्गठनात्मकगतिविधीनां अधिकप्रभावशालीकरणस्य आगामीकार्यक्रमाणां रणनीतेश्च विषये मन्थनं कृतम्।

सभायां विशेषरूपेण बलं दत्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः मार्गदर्शने भाजपासङ्गठनं राष्ट्रसेवायाः, जनसम्पर्कस्य, सङ्गठनविस्तारस्य च स्वकीयम् अभियानम् अधिकवेगेन अग्रे नेष्यति। पक्षनेतृत्वेन कार्यकर्तॄणां सक्रियभूमिकां सङ्गठनस्य सर्वाधिकां शक्तिं मन्यमानं तां अधिकं सुदृढां कर्तुं सङ्कल्पः पुनरपि प्रकटितः। सभायां सङ्गठनं भूमिस्तरे अधिकं सुदृढं कर्तुं, कार्यकर्तॄणां सहभागितां वर्धयितुं, जनसेवायाः सङ्कल्पं नवीनोत्साहेन अग्रे नेतुं च विविधेषु विषये विस्तरेण चर्चा कृता।

सभायाः अनन्तरं भाजपायाः तेलङ्गाणप्रदेशाध्यक्षः एन रामचन्द्ररावः उक्तवान् यत् सङ्गठनात्मकविषयैः सह अनेकानां कार्यक्रमाणां रूपरेखायाः विषये अपि विस्तरेण मन्थनं कृतम्। तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः सार्वजनिकजीवनस्य पञ्चविंशतिवर्षाणां पूर्तेः अवसरे पक्षः देशव्यापि विशेषाभियानं चालयिष्यति। अस्मिन् मुख्यमन्त्रिरूपेण त्रयोदशवर्षाणां प्रधानमन्त्रिरूपेण द्वादशवर्षाणां च तस्य सार्वजनिकसेवायाः विशेषतया उल्लेखः करिष्यते।

रामचन्द्ररावेण सूचितं यत् सप्तदशे सितम्बरमासे प्रधानमन्त्री नरेन्द्रमोदिनः जन्मदिवसात् सप्तदशे अक्टोबरमासपर्यन्तं सेवासङ्कल्पाभियानं चालिष्यते। अभियानस्य अन्तर्गतं रक्तदानशिबिराणि, स्वच्छताभियानानि, विविधाः सामाजिकसेवाकार्यक्रमाश्च आयोजयिष्यन्ते। तेन उक्तं यत् सेवाकार्याणां माध्यमेन समाजे पक्षस्य सहभागितां अधिकं सुदृढं कर्तुम् अस्य अभियानस्य उद्देश्यम् अस्ति।

सभायां पक्षनेतृत्वेन विभिन्नेषु प्रदेशेषु सङ्गठनस्य सज्जतायाः समीक्षां कृत्वा निर्वाचनरणनीतेः सङ्गठनस्य च भूमिस्तरे अधिकसुदृढीकरणे बलं दत्तम्।

उल्लेखनीयं यत् शनिवासरे प्रधानमन्त्री नरेन्द्रमोदिना अपि सङ्गठनात्मिकसभायां नूतनैः पदाधिकारिभिः सह मिलित्वा पक्षं सुदृढं कर्तुं जनसम्पर्कं वर्धयितुं च बलं दत्तम्। तेन सर्वैः पदाधिकारिभिः सह वार्तालापं कृत्वा तेषां मार्गदर्शनं कृतम्। प्रायः पञ्चघण्टापर्यन्तं प्रवृत्तायां सभायां तेन सर्वैः सह चर्चा कृता। सभायाः अनन्तरं सः एक्स इत्यत्र स्वकीयसन्देशे उक्तवान् यत् सङ्गठनात्मकसभाः नवीनविचाराणां नवीनदृष्टिकोणानां च मञ्चाः भवन्ति, येषां उद्देश्यं पक्षं सुदृढं कर्तुं जनसम्पर्कं च अधिकगभीरं कर्तुम् अस्ति। सहयोगिभिः नेतृभिः नूतनया सङ्गठनात्मिकसमित्या च सह अत्यन्तं सार्थकः सकारात्मकश्च संवादः अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani