Enter your Email Address to subscribe to our newsletters

कोलकाता, २३ अगस्तमासः (हि.स.)। पूर्वमुख्यमन्त्रिणः बुद्धदेवभट्टाचार्यस्य पत्नी मीरा देवी विगतद्विदिनाभ्यः उदरसमस्यायाः कारणेन अलीपुरस्थे एकस्मिन् निज-चिकित्सालये चिकित्सार्थं प्रवेशिता अस्ति। शनिवासरस्य सायंकाले मुख्यमन्त्री शुभेन्द्वुअधिकारी तां द्रष्टुं चिकित्सालयं प्राप्तवान्। चिकित्सकेभ्यः तस्याः स्वास्थ्यस्थितेः विषये सूचनां प्राप्य मुख्यमन्त्री मीरादेव्या सह अपि मिलितवान्।
प्राप्तविवरणानुसारं सम्प्रति मीरादेव्याः स्वास्थ्यस्थितिः स्थिरा अस्ति। तस्याः स्वास्थ्ये सुधारस्य वार्तां श्रुत्वा मुख्यमन्त्री भावुकः अभवत्। सः हस्तौ संयोज्य मीरादेव्याः आशीर्वादमपि प्राप्तवान्।
बुद्धदेवभट्टाचार्यस्य मीराभट्टाचार्यायाश्च शुभेन्द्वुअधिकारेण दीर्घकालात् परिचयः अस्ति। सत्तापरिवर्तनानन्तरं मीरादेवी शुभेन्दुसर्वकारे विश्वासं प्रकटितवती आसीत्। सा अवदत् यत् शुभेन्द्वुअधिकारी बुद्धदेवभट्टाचार्यस्य स्वप्नानि पूर्णं करिष्यति।
बुद्धदेवभट्टाचार्यस्य कार्यकालस्य समये राज्ये औद्योगिकीकरणाय पर्याप्तं बलं प्रदत्तम् आसीत्। तस्य मतम् आसीत् यत् युवानां श्रेष्ठभविष्याय राज्ये उद्योगानां विकासः आवश्यकः अस्ति। सत्तापरि-वर्तनानन्तरं डानकुनी-बाङ्कुडासहितेषु बहुषु क्षेत्रेषु नवीनानाम् उद्योगानां प्रारम्भः अभवदिति उक्तम् अस्ति।
मुख्यमन्त्रिणा शुभेन्द्वुअधिकारेण मेजियायां श्याम-स्टील-कारखानस्य नूतनस्य एककस्य आधारशिलापि स्थापिता अस्ति। एतेषां सर्वेषां विकासकार्याणां सूचना मीरादेव्याः समीपमपि प्राप्ता अस्ति तथा सा मुख्यमन्त्रिणं प्रति स्वविश्वासं प्रकटितवती अस्ति।
बुद्धदेवभट्टाचार्यस्य निधनानन्तरं मीरा-देव्याः सुरक्षापि प्रत्याहृता आसीत् तथा सा अत्यन्तं सरलजीवनं यापयति स्म। तथापि सत्तापरिवर्तनानन्तरं राज्यसर्वकारेण तस्याः सुरक्षा पुनः स्थापयितुं निर्णयः कृतः। तस्मिन् समये मीरादेवी अवदत् यत् बुद्धदेवबाबोः निधनानन्तरं तस्याः सुरक्षा अपसारिता आसीत्। सा एतदपि अवदत् यत् यदि मुख्यमन्त्रिणा तस्याः विषये चिन्तयित्वा एषः निर्णयः कृतः अस्ति, तर्हि एतत् तस्याः कृते सौभाग्यस्य विषयः अस्ति।
Hindusthan Samachar / Divya Ranjan