भागलपुरं शिवभक्तिरङ्गे रञ्जितम्, अन्तिमसोमवासरे महाभिषेकस्य भव्यसज्जता
भागलपुरम्, २३ अगस्तमासः (हि.स.)। श्रावणमासस्य चतुर्थस्य अन्तिमस्य च सोमवासरस्य अवसरं दृष्ट्वा सम्पूर्णं भागलपुरनगरं शिवभक्तिरसेन पूर्णतया मग्नम् अभवत्। रविवासरस्य प्रातःकालादेव नगरस्य प्रमुखेषु गङ्गाघट्टेषु जलाहरणार्थं डाकबम-नामकानां बोलबम-कांवडिय
गंगा स्नान करते श्रद्धालु


भागलपुरम्, २३ अगस्तमासः (हि.स.)। श्रावणमासस्य चतुर्थस्य अन्तिमस्य च सोमवासरस्य अवसरं दृष्ट्वा सम्पूर्णं भागलपुरनगरं शिवभक्तिरसेन पूर्णतया मग्नम् अभवत्।

रविवासरस्य प्रातःकालादेव नगरस्य प्रमुखेषु गङ्गाघट्टेषु जलाहरणार्थं डाकबम-नामकानां बोलबम-कांवडियानां च महान् जनसम्मर्दः दृष्टः। प्रातःकालात् मध्याह्न-पर्यन्तं नगरस्य सर्वाः वीथयः केसरियवस्त्रधारिभिः शिवभक्तैः परिपूर्णाः दृश्यन्ते स्म। वाद्ययन्त्राणां ध्वनिः, भजन-कीर्तनानि, हस्तेषु त्रिवर्णध्वजं धृत्वा शिवभक्तानाम् उत्साहश्च दर्शनीयः आसीत्।

लक्षशः कांवडियाः सुल्तानगञ्ज-भागलपुरयोः घट्टेभ्यः गङ्गाजलं गृहीत्वा बासुकीनाथधामं विविधशिवालयांश्च प्रति गच्छन्ति। एते सर्वे श्रद्धालवः सोमवासरे भगवत: भोलेनाथस्य महाभिषेकं करिष्यन्ति।

चतुर्थस्य सोमवासरस्य अवसरं दृष्ट्वा नगरस्य प्रमुखेषु शिवमन्दिरेषु विशेष-व्यवस्थाः कृताः सन्ति। बूढानाथमन्दिरस्य परिसरः भव्यरूपेण अलङ्कृतः अस्ति। प्रबन्धकः बाल्मिकीसिंहः अवदत् यत् सोमवासरे बाबायाः विशेषं मनोहरं च शृङ्गारं करिष्यते।

आदमपुर-शिवशक्तिमन्दिरे द्विशत-कुन्तल-परिमितेन इक्षुरसेन पञ्चामृतेन च भगवान् शिवस्य भव्यः महारुद्राभिषेकः करिष्यते। भूतनाथमन्दिरे बाबायाः शृङ्गारः कोलकाता-बेङ्गलूरुनगराभ्यां मङ्गीतैः विशेषबहुवर्णीयगुलाबपुष्पैः करिष्यते। अपरतः राणी-सतीमन्दिरेऽपि भोलेनाथस्य विशेषशृङ्गारस्य महाआरार्तिक्यश्च सज्जता पूर्णा कृता अस्ति।

कांवडियानां श्रद्धालूनां च महान्तं जनसम्मर्दं दृष्ट्वा प्रशासनं पूर्णतया सतर्कम् अस्ति।

बूढानाथ, आदमपुर-शिवशक्ति, कुपेश्वरनाथ, भूतनाथ, मनसकामना-नाथमन्दिरेषु च अन्येषु सर्वेषु प्रमुखशिवालयेषु पर्याप्तसंख्यया महिला-आरक्षकबलं पुरुष-आरक्षकबलं च नियुक्तम् अस्ति। तदतिरिक्तं सुरक्षाव्यवस्थां सुदृढां कर्तुं सर्वत्र स्थापितैः सीसीटीवी-कैमेरा इत्येतै: कठिनं निरीक्षणं क्रियते।

Hindusthan Samachar / Divya Ranjan