मुख्यमंत्री रसोवतीभ्यः अददात् वृद्धिम् , वर्धितं मानदेयं, राशिरहितचिकित्साप्रपत्रस्य बीमा सुविधायाः उद्घोषः
लखनऊ, 23 अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः रविवासरे इन्दिरागान्धीप्रतिष्ठाने आयोजिते कार्यक्रमे मध्याह्नभोजनयोजनायाः पाककारिणां हिताय महत्त्वपूर्णां घोषणां कुर्वन् तेषां मानधनस्य वृद्धिं कृतवान्। अधुना मध्याह्नभोजनयोजनायाः पाककारिभ्
रसोइयों को चेक प्रदान करते मुख्यमंत्री योगी आदित्यनाथ


लखनऊ, 23 अगस्तमासः (हि.स.)।

मुख्यमन्त्री योगी आदित्यनाथः रविवासरे इन्दिरागान्धीप्रतिष्ठाने आयोजिते कार्यक्रमे मध्याह्नभोजनयोजनायाः पाककारिणां हिताय महत्त्वपूर्णां घोषणां कुर्वन् तेषां मानधनस्य वृद्धिं कृतवान्। अधुना मध्याह्नभोजनयोजनायाः पाककारिभ्यः द्विसहस्ररूप्यकाणां स्थाने त्रिसहस्ररूप्यकाणि प्रतिमासं मानधनरूपेण प्राप्स्यन्ति। तेन सह पाककारिभ्यः परिधानाय दीयमानम् अनुदानमपि द्विगुणीकृतम् अस्ति। अस्मिन् अवसरे मुख्यमन्त्रिणा पाककारिभ्यः नगदरहितचिकित्साकार्डानि अपि वितरितानि।

मुख्यमन्त्रिणा कथितं यत् अधुना पाककारिभ्यः परिधानाय पञ्चशतरूप्यकाणां स्थाने सहस्ररूप्यकाणि अनुदानरूपेण प्रदास्यन्ते। एतदतिरिक्तं मध्याह्नभोजनयोजनायाः पाककारिभ्यः नगदरहितस्वास्थ्यकार्डस्य सुविधा उपलब्धा करिष्यते। सर्वकारस्य पक्षतः तेभ्यः बीमासुरक्षायाः लाभः अपि प्रदास्यते। दुर्घटनायाः स्थितौ द्विलक्षरूप्यकाणि यावत् दुर्घटनाबीमासुविधा प्रदास्यते।

मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् सर्वकारः प्रदेशस्य प्रत्येकस्य वर्गस्य कल्याणाय निरन्तरं कार्यं करोति। शिक्षाव्यवस्थां श्रेष्ठतरां कर्तुं सह विद्यालयेषु कार्यरतानां कर्मचारिणां पाककारिणां च सुविधानाम् अपि ध्यानं दीयते।

कार्यक्रमस्य समये मुख्यमन्त्री योगी आदित्यनाथः समाजवादीपक्षस्य राष्ट्रियाध्यक्षस्य पूर्वमुख्यमन्त्रिणः च अखिलेशयादवस्य विषये अपि कटाक्षं कृतवान्। तेन उक्तं यत् पूर्वसर्वकारे प्रदेशस्य विकासाय जनहितकार्येभ्यश्च समयः नासीत्। तेन व्यङ्ग्यपूर्वकं कथितं यत् पूर्वं बबुआ द्वादशवादने निद्रातः उत्थाय द्विवादने सज्जीभवन्ति स्म, पञ्चवादने व्यायामशालां गच्छन्ति स्म, सप्तवादने च महफिलः सज्जीभवति स्म। तेषां पार्श्वे प्रदेशाय समयः कुत्र आसीत्। अद्य सर्वकारस्य पार्श्वे प्रदेशाय पर्याप्तः समयः अस्ति।

मुख्यमन्त्रिणा उक्तं यत् वर्तमानसर्वकारे विधिव्यवस्था सुदृढा जाता अस्ति। प्रदेशे बालिकानां सुरक्षया सह कश्चित् अपि क्रीडितुं न शक्नोति। बालिकानां छेडनं कुर्वतां विरुद्धं कठोरं कार्यं करिष्यते। तेन उक्तं यत् पूर्वसर्वकारे विद्यालयानां व्यवस्था शोचनीया आसीत् परीक्षासु च अनुचितसाधनानां प्रयोगः भवति स्म, किन्तु अधुना शिक्षाव्यवस्थायां सुधारः जातः। तेन दावितं यत् जनता आगामीविधायिकानिर्वाचने समाजवादीपक्षाय उत्तरं दास्यति तथा प्रदेशे विकासस्य राजनीतिं अग्रे नेष्यति।

मुख्यमन्त्रिणः हस्ताभ्यां एकादश पाककारिभ्यः नगदरहितचिकित्साकार्डं वर्धितमानधनस्य च धनादेशः प्राप्तः

मुख्यमन्त्रिणः योगी आदित्यनाथस्य उपस्थितौ रविवासरे इन्दिरागान्धीप्रतिष्ठाने आयोजिते कार्यक्रमे पाककारिसामाजिकसुरक्षायोजनायाः अन्तर्गतं समझौताज्ञापनं सम्पन्नम्। आधारभूतशिक्षाविभागस्य अपरमुख्यसचिवेन पार्थसारथीसेनशर्मणा भारतीयस्टेटबैङ्कस्य मुख्यमहाप्रबन्धकेन दीपेशराजेन च पाककारिणां तेषां परिजनानां च कृते द्विलक्षरूप्यकाणां दुर्घटनाबीमासहायतायाः सुरक्षाकवचसम्बन्धितस्य अनुबन्धस्य आदानप्रदानं कृतम्। कार्यक्रमे प्रधानमन्त्रिपोषणमध्याह्नभोजनयोजनायाः उपलब्धीनां सम्बन्धिनी लघुचलच्चित्रिका अपि प्रदर्शिता।

अस्मिन् समये मुख्यमन्त्रिणा एकादश पाककारिभ्यः सम्मानं, नगदरहितचिकित्साकार्डं, परिधानकिटं वर्धितमानधनस्य धनादेशं च प्रदत्तम्।

छात्राभिः मुख्यमन्त्रिणा सह स्वचित्राणि गृहीतानि

मुख्यमन्त्रिणा कार्यक्रमस्य समये विभिन्नानां प्रदर्शनीस्थलानाम् अपि अवलोकनं कृतम्। तेन योजनानां प्रगतेः विषये सूचनाः अपि प्राप्ताः। बालकैः तस्मै निपुणतराजुः इत्यस्य विषये अपि कथितम्। तेन बालकेभ्यः चाकलेहं प्रदत्तम्। अस्मिन् समये मीना मञ्चस्य प्रदर्शनीस्थले बालिकाभिः मुख्यमन्त्रिणः सह स्वचित्रं ग्रहीतुं अनुरोधः कृतः, येन मुख्यमन्त्री स्मितवान् तथा बालिकाभिः तेन सह स्वचित्राणि अपि गृहीतानि।

ततः मुख्यमन्त्री योगी षण्मासवयस्कायै अनितायै मोहम्मदअलीनाम्ने च स्वहस्तेन पायसं भोजयित्वा तयोः अन्नप्राशनसंस्कारं कारितवान् तथा खिलौनकम् अपि प्रदत्तवान्।

कार्यक्रमे उपमुख्यमन्त्री ब्रजेशपाठकः, आधारभूतशिक्षामन्त्री सन्दीपसिंहः, विधायकः डाॅ. नीरजसिंहः, विधानपरिषदः सदस्यः मुकेशशर्मा, विधानपरिषदः सदस्यः रामचन्द्रप्रधानः, विधानपरिषदः सदस्यः अवनीशपटेलः च प्रमुखतया उपस्थिताः आसन्।

-----------

Hindusthan Samachar / Dheeraj Maithani