फाजिल्का फाल्कन्स इत्यस्य नायकत्वमाधृत्य उत्साहितः शुभमन गिलः, अवदत्- अस्माकं पार्श्वे प्रतिभाशालिनां क्रीडकानां समूहः
चंडीगढ़म्, 23 अगस्तमासः (हि.स.)। शेर ए पंजाब ट्वेण्टी ट्वेण्टी लीगायां भागं गृह्णती फाजिल्का फाल्कन्स इति क्रीडादलस्य नेतृत्वं कर्तुं भारतीयक्रिकेटक्रीडकः शुभमनगिलः अत्यन्तम् उत्साहितः अस्ति। सः दलस्य युवाैः प्रतिभाशालिभिः क्रीडकैः सह क्रीडां कर्तु
शुभमन गिल


चंडीगढ़म्, 23 अगस्तमासः (हि.स.)। शेर ए पंजाब ट्वेण्टी ट्वेण्टी लीगायां भागं गृह्णती फाजिल्का फाल्कन्स इति क्रीडादलस्य नेतृत्वं कर्तुं भारतीयक्रिकेटक्रीडकः शुभमनगिलः अत्यन्तम् उत्साहितः अस्ति। सः दलस्य युवाैः प्रतिभाशालिभिः क्रीडकैः सह क्रीडां कर्तुं विषये अवदत् यत् एषः प्रतियोगितोत्सवः तस्य कृतेऽपि शिक्षणस्य अनुभवानां च आदानप्रदानस्य उत्कृष्टः अवसरः भविष्यति।

शेर ए पंजाब ट्वेण्टी ट्वेण्टी लीगायाः प्रारम्भः अगस्तमासस्य त्रिंशत्तमे दिनाङ्के चण्डीगढस्य आई एस बिन्द्राक्रीडाङ्गणे भविष्यति। विजेतृपदकाय षट् दलानि परस्परं प्रतिस्पर्धां करिष्यन्ति, यस्मिन् पञ्जाबस्य बहवः प्रतिभाशालिनः युवा क्रिकेटक्रीडकाः स्वप्रतिभां प्रदर्शयितुं अवसरं प्राप्स्यन्ति। फाजिल्का फाल्कन्स इति दलस्य नेतृत्वं भारतीयक्रिकेटदलस्य टेस्ट् तथा एकदिवसीयस्पर्धानां कप्तानः शुभमनगिलः करिष्यति।

कप्तृत्वं दलं च प्रति शुभमनगिलः एकस्मिन् निवेदने अवदत्, अहं फाजिल्का फाल्कन्स इति दलस्य कप्तृत्वं कर्तुं अत्यन्तम् उत्साहितः अस्मि। अस्माकं समीपे प्रतिभाशालिनां रोमाञ्चकरक्रीडकानां समूहः अस्ति। अहं दलस्य सह कार्यं कर्तुं सर्वैः सह मिलित्वा क्रीडां कर्तुं च उत्सुकः अस्मि। एषः अस्माकं सर्वेषां कृते परस्परं शिक्षितुं उत्तमं क्रिकेट् क्रीडितुं च उत्कृष्टः अवसरः भविष्यति।

गिलः पञ्जाबक्रिकेटसङ्घस्यापि प्रशंसां कृतवान्, येन अस्याः लीगायाः आयोजनं कृत्वा युवा क्रिकेटक्रीडकानां कृते स्वकीयेषु क्रीडाजीवनेषु अग्रे वर्धितुं मञ्चः उपलब्धः कृतः अस्ति।

सः अवदत्, अहं शेर ए पंजाब ट्वेण्टी ट्वेण्टी लीगायाः आयोजनाय पञ्जाबक्रिकेटसङ्घं धन्यवादं दातुम् इच्छामि। एषा पञ्जाबस्य युवा प्रतिभाशालिनां क्रिकेटक्रीडकानां कृते अत्यन्तं महत्त्वपूर्णः मञ्चः अस्ति। ते अनुभवीभिः गुणवत्तापूर्णैः क्रीडकैः विरुद्धं क्रीडितुं, अनुभवम् अर्जितुं स्वक्षमतां प्रदर्शयितुं च अवसरं प्राप्नुवन्ति। आशासे यत् एतेषु बहवः क्रीडकाः अस्य प्रतियोगितोत्सवस्य उपयोगं महत्त्वपूर्णावसरान् प्रति अग्रे गन्तुं सोपानरूपेण कर्तुं समर्थाः भविष्यन्ति।

गिलः फाजिल्का फाल्कन्स इति दलस्य युवा क्रीडकैः सह स्वानुभवस्य आदानप्रदानं कर्तुम् अपि उत्साहितः अस्ति। तस्य मतानुसारं आत्मविश्वासः, क्रीडायाः परिस्थितीनां बोधनम्, दबावपूर्णस्थितौ सम्यक् निर्णयग्रहणस्य क्षमता च युवा क्रिकेटक्रीडकानां कृते अत्यन्तम् आवश्यका अस्ति।

गिलः अवदत्, युवा क्रीडकानां कृते स्वकीयक्षमतायां विश्वासं स्थापयितुं दबावपूर्णस्थितौ च शान्ताः भवितुं अत्यन्तम् आवश्यकम् अस्ति। अहं तेभ्यः क्रीडायाः सम्यक् अवबोधे साहाय्यं कर्तुम् इच्छामि, यथा परिस्थितीनां पठनं भवतु, सम्यक् निर्णयग्रहणं भवतु अथवा दबावस्य नियन्त्रणं भवतु। एतानि विषयाः अनुभवेण सह आगच्छन्ति। यदि अहं स्वानुभवात् प्राप्ताः शिक्षाः तैः सह साझीकर्तुं शक्नुयाम्, तर्हि एषः मम कृतेऽपि उत्तमः अवसरः भविष्यति।

फाजिल्का फाल्कन्स इति दलस्य कृते प्रतियोगितायाः विजयं प्राप्तुं निश्चयेन प्राथमिकं लक्ष्यं भविष्यति, किन्तु गिलस्य मतानुसारं लीगस्य महती सफलता एतेनापि निर्धारितं भविष्यति यत् एषा युवा क्रीडकानां कृते कति नवीनान् अवसरान् सृजति।

गिलः अवदत्, निःसन्देहं वयं विजेतृपदकं प्राप्तुं लक्ष्यं करिष्यामः, किन्तु मम कृते सफलता इत्यस्य अर्थः एतदपि भविष्यति यत् अस्माकं दलस्य युवा क्रीडकाः सम्पूर्णे प्रतियोगितोत्सवे कियत् विकासं कुर्वन्ति।

शेर ए पंजाब ट्वेण्टी ट्वेण्टी लीगायां राज्यस्य उदयमानानां बहूनां क्रिकेटक्रीडकानाम् एकस्मिन् मञ्चे समागमेन प्रतियोगिता अधिका रोमाञ्चकरा भविष्यति इति अपेक्षा अस्ति। फाजिल्का फाल्कन्स इति दलस्य कप्तानरूपेण शुभमनगिलस्य उपस्थित्या दलस्य अनुभवस्य सह उत्साहोऽपि वर्धिष्यते।---------------

Hindusthan Samachar / Dheeraj Maithani