अमरबलिदानी गुलाबसिंहलोधी ३२ वर्षे वयसि त्रिवर्णध्वजं ध्वजं च उत्थाप्य वीरगतिं प्राप्तवान् : मुख्यमन्त्री योगी
लखनऊ, २३ अगस्तमासः (हि.स.)। स्वातन्त्र्यसङ्ग्रामसेनानिनः अमरबलिदानिन: गुलाबसिंहलोधिनः ९१-बलिदानदिवसस्य अवसरे मुख्यमन्त्री योगी आदित्यनाथः रविवासरे अमीना-बादस्थे झण्डेवाला-उद्याने तस्य प्रतिमायै पुष्पाणि समर्प्य श्रद्धाञ्जलिं दत्तवान्। अस्मिन् अवसरे
क्रांतिकारी गुलाब सिंह लोधी की प्रतिमा के समक्ष मुख्यमंत्री योगी


लखनऊ, २३ अगस्तमासः (हि.स.)। स्वातन्त्र्यसङ्ग्रामसेनानिनः अमरबलिदानिन: गुलाबसिंहलोधिनः ९१-बलिदानदिवसस्य अवसरे मुख्यमन्त्री योगी आदित्यनाथः रविवासरे अमीना-बादस्थे झण्डेवाला-उद्याने तस्य प्रतिमायै पुष्पाणि समर्प्य श्रद्धाञ्जलिं दत्तवान्। अस्मिन् अवसरे मुख्यमन्त्री योगी अवदत् यत् २३ अगस्त १९३५ तमे वर्षे केवलं ३२ वर्षस्य वयसि भारतमातुः महान् सुतः अमरबलिदानी गुलाबसिंहलोधी ब्रिटिशशासनं प्रति समस्यां दत्त्वा अस्मिन्नेव उद्याने भारतस्य त्रिवर्णध्वजम् आरोहितवान्। तस्मिन् समये त्रिवर्णध्वजः स्वातन्त्र्यस्य प्रतीकः आसीत्। कायरया ब्रिटिशसर्वकारेण तस्य साहसस्य प्रत्युत्तरं गुटिकाभिः दत्तम्, सः च देशस्य स्वातन्त्र्यार्थं वीरगतिं प्राप्तवान्।

मुख्यमन्त्री अवदत् यत् गुलाबसिंहलोधी बलिदानं दत्तवान्, किन्तु अग्रिमवंशानां कृते स्वातन्त्र्यस्य एकं स्वर्णिमं पृष्ठं त्यक्तवान्। तस्य बलिदानस्य केवलं द्वादशवर्षेभ्यः अनन्तरं देशः ब्रिटिशदासत्वात् मुक्तः भूत्वा स्वतन्त्रः अभवत्।

कृषकपरिवारे जातः, स्वातन्त्र्यार्थं जीवनं समर्पितवान्

मुख्यमन्त्री योगी अवदत् यत् अस्मिन् अवसरे प्रदेशसर्वकारस्य उत्तरप्रदेशस्य जनतायाश्च पक्षतः सः अमरबलिदानिन: पुण्यस्मृतौ नत्वा श्रद्धांजलिं समर्पयति। गुलाबसिंहलोधिनः जन्म १९०३ तमे वर्षे उन्नावजनपदे एकस्मिन् साधारणे कृषकपरिवारे अभवत्। बाल्यकालादेव तस्य अन्तः देशस्य स्वातन्त्र्यं प्रति प्रबलः उत्साहः आसीत्। अस्याः भावनायाः सह सः स्वातन्त्र्यान्दोलने सक्रियतया भागं गृहीतवान् तथा लखनऊम् आगत्य देशस्य स्वातन्त्र्यार्थं स्वजीवनं समर्पितवान्।

मुख्यमन्त्री अवदत् यत् अमरबलिदानिन: गुलाबसिंहलोधिनः स्मृतीः जीवन्ताः स्थापयितुं प्रदेशसर्वकारेण उन्नावजनपदे उद्यानस्य, स्वास्थ्यकेन्द्रस्य, आरक्षक-प्रशिक्षणमहाविद्यालयस्य च नाम तस्य नाम्ना कृत्वा श्रद्धाञ्जलिः समर्पिता अस्ति। प्रदेशसर्वकारः स्वस्य सर्वेषां अमरबलिदानिनां पुण्यस्मरणं जीवन्तं स्थापयितुं प्रतिबद्धः अस्ति।

महापुरुषाणां स्मृतीः संरक्षयिष्यति सर्वकारः

मुख्यमन्त्री अवदत् यत् अमरबलिदानी गुलाब-सिंहलोधी इव क्रान्तिकारिभिः देशस्य मानं गौरवं प्रतिष्ठां च संरक्षितुं स्वसर्वस्वं बलिदत्तम्। तेषां स्मृतीः जीवन्ताः स्थापयितुं वर्तमानवंशस्य दायित्वम् अस्ति। सः अवदत् यत् राज्यसर्वकारः स्वातन्त्र्य-सङ्ग्रामसेनानिनाम् अमरबलिदानिनां च स्मृतीः संरक्षितुं स्मारकनिर्माणकार्यक्रमं निरन्तरं अग्रे नेष्यति।

महापुरुषाणां स्मारकेभ्यः प्रायः ५०० कोटिरूप्यकाणि स्वीकृतानि

मुख्यमन्त्री योगी अवदत् यत् सम्प्रति एव प्रदेशसर्वकारेण सामाजिकन्यायाय देशाय च स्वजीवनं समर्पितवतां महापुरुषाणां सम्मानार्थं प्रायः ५०० कोटिरूप्यकाणां धनराशिः स्वीकृता अस्ति। एतया धनराश्या बाबासाहेब-डॉ. भीमराव-अम्बेडकरस्य, सद्गुरोः रविदासस्य, महर्षेः वाल्मीकेः इत्यादीनां महापुरुषाणां प्रतिमासु छादननिर्माणं, उद्यानानां नवनिर्माणं, तेषां सुरक्षायै च कार्याणि करिष्यन्ते। सः अवदत् यत् महापुरुषेषु श्रद्धायाः सम्मानस्य च एषः क्रमः निरन्तरम् अग्रे वर्धिष्यते।

Hindusthan Samachar / Divya Ranjan