उद्योगानां विकासाय नीलपत्रं निर्माय कार्यं कुरुते सर्वकारः : मुख्यमंत्री
-मुख्यमंत्रिणो भजनलाल शर्मणः जापानी प्रतिनिधिमंडलेन सहोपवेशनम् जयपुरम्, 23 अगस्तमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् राजस्थानस्य जापानस्य च मध्ये बहुवर्षपुरातनः सम्बन्धः अस्ति। अतः राज्यसर्वकारः राजस्थानस्य जापानस्य च मध्ये रत्
स्वागत


-मुख्यमंत्रिणो भजनलाल शर्मणः जापानी प्रतिनिधिमंडलेन सहोपवेशनम्

जयपुरम्, 23 अगस्तमासः (हि.स.)।

मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् राजस्थानस्य जापानस्य च मध्ये बहुवर्षपुरातनः सम्बन्धः अस्ति। अतः राज्यसर्वकारः राजस्थानस्य जापानस्य च मध्ये रत्नाभरणसहितानाम् अन्येषाम् उद्योगानां विकासाय कार्ययोजनां निर्माय कार्यं करोति। अस्यैव क्रमे जापानीक्षेत्रं निर्माय विशेषसुविधाः विकसिताः सन्ति, येन जापानीयकम्पनीभ्यः अनुकूलाः आधारभूतसुविधाः सुलभाः भवन्ति।

मुख्यमन्त्रिणा रविवासरे जापानदेशस्य प्रतिनिधिमण्डलेन सह सभा कृत्वा उद्योगानां निवेशस्य च विषये चर्चा कृता। अस्मिन् अवसरे तेन उक्तं यत् जयपुरज्वैलरी एसोसिएशन यामानाशी ज्वैलरी एसोसिएशन च संयुक्तरूपेण प्रौद्योगिक्या निवेशेन च रत्नाभरणव्यापारं अधिकं अग्रे नयेताम्, येन व्यापारस्य वृद्ध्या सह अधिकाधिकाः रोजगारावसराः अपि सृज्येरन्। तेन २०२४ तमे वर्षे स्वस्य जापानयात्रायाः उल्लेखं कुर्वता कथितं यत् जापानीयकम्पनीभिः राजस्थानस्य निवेशे त्रिगुणात् चतुर्गुणपर्यन्तं लाभप्राप्तेः विषये कृतज्ञता अपि प्रकटिता आसीत्। तेन उक्तं यत् राज्यसर्वकारः जापानदेशस्य निवेशकान् राजस्थानप्रदेशे उद्योगस्थापनाय आमन्त्रयति।

जापानीयप्रतिनिधिमण्डलेन राज्यसर्वकारस्य प्रशंसा कृता

सभायां जापानदेशस्य कोफूनगरस्य महापौरः युइचीहिगुची राजस्थानसर्वकारस्य निवेशानुकूलनीतीनां तत्र उपलब्धानां निवेशावसराणां च प्रशंसां कुर्वन् उक्तवान् यत् जापानदेशस्य एकशीत्यधिकशतं कम्पन्यः राजस्थानप्रदेशे कार्यं कुर्वन्ति। तेन उक्तं यत् जयपुरस्य कोफूनगरस्य च आभूषणनिर्मातारः संयुक्तरूपेण सम्पूर्णे विश्वे आभूषणव्यापारं कुर्वन्ति। जयपुरस्य प्रायः षष्टिः कम्पन्यः कोफूनगरे आभूषणव्यापारं कुर्वन्ति।

अस्मिन् अवसरे मुख्यमन्त्रिणा जापानीयप्रतिनिधिमण्डलेन च राधेराधे इति कथयित्वा परस्परं अभिवादनं कृतम्। सभायाम् अतिरिक्तमुख्यसचिवः मुख्यमन्त्रिकार्यालयस्य अखिलअरोडा, जयपुरज्वैलरी एसोसिएशनस्य अध्यक्षः राजूअग्रवालमंगोड़ीवाला, यामानाशी ज्वैलरी एसोसिएशनस्य अन्तरराष्ट्रीयसमित्याः अध्यक्षः नवीनसोनकिया, कोशिनकम्पनी लिमिटेडस्य अध्यक्षः काजुओमात्सुमोटो, क्रिएटताकानो कम्पनी लिमिटेडस्य अध्यक्षः चिकारा यानागिमोटो, द यामानाशी चुओ बैङ्क लिमिटेडस्य वरिष्ठः परामर्शदाता नकाबाशिन्दो, कोफूबिल्डिङ्गकम्पनी लिमिटेडस्य अध्यक्षः तेत्सुजीसकामोटो, कोफूनगरस्य उद्योगविभागस्य महानिदेशकः ताकेयासुतानाका, कोफूनगरस्य वाणिज्य एवं उद्योगविभागस्य प्रबन्धकः सातोशीत्सुनोदा, ईगाडोकम्पनी लिमिटेडस्य उपाध्यक्षः तादाओशिमुरा, क्रॉसफोरकम्पनी लिमिटेडस्य अध्यक्षः अकीहिकोनाइतो, कोफूचेम्बरऑफकॉमर्सएण्डइण्डस्ट्रीस्य प्रबन्धकः शिगेमासासुजुकी, कोफूनगरस्य अन्ताराष्ट्रियसम्बन्धविभागस्य महापौरकार्यालयप्रबन्धकः शुनिचीहागिहारा इत्यादयः अन्ये उच्चाधिकारिणः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani