पूजारम्भात् पूर्वं नूतनरूपेण सज्जितः भविष्यति कुमोरटुली-घाटः
कोलकाता, २३ अगस्तमासः (हि.स.)। कोलकातानगरस्य ऐतिहासिकः कुमोरटुली-घाटः पूजारम्भात् पूर्वं पूर्णतया नूतनरूपेण दृश्यते। कुमोरटुलीं धरोहर-पर्यटनस्य प्रमुखकेन्द्ररूपेण विकसितुं घाटस्य सौन्दर्यीकरणकार्यं तीव्रगत्या प्रचलति। अत्र देश-विदेशेभ्यः बहुसंख्यका
कुमार टोली के कलाकार


कोलकाता, २३ अगस्तमासः (हि.स.)। कोलकातानगरस्य ऐतिहासिकः कुमोरटुली-घाटः पूजारम्भात् पूर्वं पूर्णतया नूतनरूपेण दृश्यते। कुमोरटुलीं धरोहर-पर्यटनस्य प्रमुखकेन्द्ररूपेण विकसितुं घाटस्य सौन्दर्यीकरणकार्यं तीव्रगत्या प्रचलति। अत्र देश-विदेशेभ्यः बहुसंख्यकाः पर्यटकाः आगच्छन्ति।

प्राप्तविवरणानुसारं कुमोरटुलीतः चम्पातला-घाटपर्यन्तं हुगलीनद्याः समीपे प्रायः ३०० मीटर्-परिमितः नदीतीरभागः नूतनरूपेण विकसितः क्रियते। सम्पूर्णेऽस्मिन् परियोजनाकार्ये प्रायः १० कोटिरूप्यकाणां व्ययः भविष्यति। श्यामाप्रसादमुखर्जी-पत्तनस्य अर्थात् कोलकाता-पोर्ट-न्यासस्य अडानी-पोर्ट्स-एण्ड्-स्पेशल-इकोनॉमिक-जोन-लिमिटेड्-संस्थायाश्च संयुक्तप्रयासेन ऐतिहासिकघट्टस्य कायाकल्पः क्रियते।

सूत्रानुसारं नूतनघाटस्य उद्घाटनम् अग्रिमे २४ सितम्बरदिनाङ्के कर्तुं शक्यते। अस्य महापरियोजनायाः उद्घाटनसमारोहे अडानी-समूहस्य अध्यक्षः गौतम-अडानी अपि सम्मिलितः भवितुं सम्भावना अस्ति।

अस्याः परियोजनायाः माध्यमेन केवलं घट्टस्य सौन्दर्यीकरणमेव न, अपितु कुमोरटुलीं धरोहरपर्यटनस्य प्रमुखकेन्द्र-रूपेण विकसितुं योजना अस्ति। राज्यस्य पर्यटनविभागः कुमोरटुल्यै एकं मास्टरप्लान् निर्माति, येन अत्र आगच्छद्भ्यः पर्यटकेभ्यः उत्तमसुविधाः प्राप्नुयुः तथा ऐतिहासिकक्षेत्रस्य परिचयः अधिकं सुदृढः भवेत्।

अस्याः परियोजनायाः लाभः कुमोरटुलीस्थेभ्यः ३०० तः अधिकेभ्यः मृत्शिल्पिभ्यः अपि भविष्यतीति अपेक्षा अस्ति। सम्प्रति पूजाकाले देश-विदेशेभ्यः जनाः दुर्गाप्रतिमाः द्रष्टुं अत्र आगच्छन्ति। नूतनविकासानन्तरं सम्पूर्णे वर्षे पर्यटकान् अत्रत्यया पारम्परिकमूर्तिकलया कला-काराणां कलया च परिचितान् कर्तुं प्रयासः भविष्यति।

अनेन कुमोरटुल्याः ऐतिहासिकपरिचयस्य संरक्षणेन सह स्थानीयकलाकाराणां पर्यटन-व्यवसायस्य च प्रोत्साहनं भविष्यतीति अपेक्षा अस्ति।

Hindusthan Samachar / Divya Ranjan