भारतस्य विकसितराष्ट्रत्वस्य यात्रा समावेशिनी, परम्परासम्बद्धा, किन्तु भविष्याभिमुखी भवेत् : मनोजसिन्हा
नवदिल्ली/जम्मू, २३ अगस्तमासः (हि.स.)। उपराज्यपालः मनोजसिन्हा अद्य नवदिल्ली इत्यत्र आई.आई.टी.-पूर्वछात्रपरिषदा आयोजिते विश्वज्ञानमञ्चे सम्बोधनं कृतवान् तथा विभिन्नेषु क्षेत्रेषु उपलब्धिं प्राप्तवद्भ्यः जनेभ्यः सम्मानं प्रदत्तवान्। स्वकीयमुख्यसम्बोधन
भारत का विकसित राष्ट्र बनने का सफर समावेशी, परंपराओं से जुड़ा हुआ लेकिन भविष्योन्मुखी होना चाहिए: मनोज सिन्हा


नवदिल्ली/जम्मू, २३ अगस्तमासः (हि.स.)। उपराज्यपालः मनोजसिन्हा अद्य नवदिल्ली इत्यत्र आई.आई.टी.-पूर्वछात्रपरिषदा आयोजिते विश्वज्ञानमञ्चे सम्बोधनं कृतवान् तथा विभिन्नेषु क्षेत्रेषु उपलब्धिं प्राप्तवद्भ्यः जनेभ्यः सम्मानं प्रदत्तवान्। स्वकीयमुख्यसम्बोधने उपराज्यपालः विकसितभारतस्य भारतस्य सामूहिकभविष्यस्य च विषये विचारविनिमयाय प्रतिष्ठितव्यक्तीन् एकत्र आनयनस्य परिषदः प्रयासाय तां अभिनन्दितवान्।

उपराज्यपालेन प्रगत्यै एकतायाः महत्त्वे बलं दत्तम् तथा रेखाङ्कितं यत् विकसितराष्ट्रत्वस्य दिशि भारतस्य यात्रा समावेशिनी परम्परासु निहिता भवित्वा अपि भविष्याभिमुखी, प्रौद्योगिक्याः शक्तेः मानवीयसंवेदनशीलतायाश्च मध्ये सन्तुलिता च भवितव्या।

तेन उक्तं यत् मम मतम् अस्ति यत् यदा विभिन्नक्षेत्राणां जनसमूहे किमपि प्राप्तुं गहनाभिलाषा भवति तदा तस्याः आकाङ्क्षायाः पीडा तीव्रता च अन्ततः तत्प्राप्तेः साधनं भवितुम् अर्हति। यथा भूमौ निहितं बीजम् अङ्कुरितुं व्याकुलं भवति, तथैव यदि कस्यचित् राष्ट्रस्य ऊर्जा स्वलक्ष्याणि प्राप्तुं तीव्रतया प्रवर्तते तर्हि किमपि असम्भवं नास्ति।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतस्य आकाङ्क्षाणां विषये विचारं कुर्वन् उपराज्यपालः अवदत् यत् विकसितभारतस्य बीजम् अधुना एव अङ्कुरितम् अस्ति तथा च विगतेषु द्वादशवर्षेषु ऐतिहासिकाः उपलब्धयः प्राप्ताः सन्ति।

अन्ताराष्ट्रियाभिकरणैः २०४७ तमवर्षात् पूर्वमेव भारतं विश्वस्य त्रयाणां बृहत्तम-अर्थव्यवस्थानाम् अन्यतमम् इव उदेतीति कृतायाः भविष्यवाण्याः सन्दर्भे राष्ट्रेण स्वसभ्यतायाः, आध्यात्मिकतायाः, सांस्कृतिकसंरचनायाश्च स्वरूपमपि परिभाषितव्यम्।

आई.आई.टी.-पूर्वछात्रैः विभिन्नक्षेत्रेषु च प्रख्यातैः व्यक्तिभिः स्मर्तव्यं यत् इतिहासः सभ्यतानां तासाम् अर्थव्यवस्थानां ताभिः अर्थव्यवस्थाभिः उत्पन्नानां संसाधनानां समृद्धेश्च उपयोगस्य कृते स्मरति।

उपराज्यपालेन पञ्च प्रमुखाः समस्या: निर्दिष्टाः, यासां समाधानं प्रख्यातव्यक्तिभिः, उद्योगैः, व्यापारनेतृभिः, अभियन्तृभिश्च मिलित्वा करणीयम्, येन विकसितभारतस्य दृष्टिकोणं साकारं कर्तुं शक्येत।

तेन उक्तं यत् भारतस्य विशालां युवजनसङ्ख्यां उदितासु प्रौद्योगिकीषु विशेषज्ञतायुक्ते कुशलकार्यबले परिवर्तयितुं महत्त्वपूर्णम् अस्ति। तथैव प्रगतेः पर्यावरणीयदायित्वस्य च मध्ये सन्तुलनं स्थापयित्वा सततविकासः सुनिश्चितः करणीयः। नागरिकानां आवश्यकतानां प्रति संवेदनशीलान्, पारदर्शकान्, उत्तरदायिनः, कार्यकुशलांश्च संस्थान् निर्माय संस्थानां सुदृढीकरणमपि आवश्यकम् अस्ति।

अस्माभिः उन्नतनगराणां पश्चाद्वर्तिक्षेत्राणां च मध्ये अन्तरं दूरीकृत्य सन्तुलित-क्षेत्रीयविकासं सुनिश्चितं कर्तुं ध्यानं दातव्यम्, येन समानविकासः भवेत्। अस्माभिः भविष्यस्य निर्माणं करणीयं, न तु तत् क्रेतव्यम्। एतदर्थम् अस्माभिः केवलं उपभोक्तृभिः न भवितव्यं, अपि तु प्रौद्योगिकीनाम्, नवाचाराणाम्, विचाराणां च वैश्विकनिर्मातृभिः अपि भवितव्यम्। अस्माभिः सङ्कल्पः करणीयः यत् वयं केवलं कृत्रिमबुद्धिमत्तायाः उपयोगं न करिष्यामः, अपि तु कृत्रिमबुद्धिमत्तायाः भविष्यनिर्माणे योगदानमपि दास्यामः। अस्माभिः सङ्कल्पः करणीयः यत् वयं नवाचारस्य आयातं न करिष्यामः, अपि तु नवाचारस्य निर्यातं करिष्यामः।

उपराज्यपालेन जम्मू-कश्मीरे अभवद्भिः परिवर्तनैः सह क्षेत्रस्य युवाशक्तेः, प्राकृतिकसंसाधनानां, पर्यटनस्य, उद्यान-कृषेः, हस्तशिल्पस्य, जलविद्युत्शक्तेश्च अपारसंभावनानाम् अपि उल्लेखः कृतः। तेन उद्योगजगतः नेतॄन् केन्द्रशासितप्रदेशे सक्रियतया निवेशं कर्तुम् आग्रहः कृतः, येन सः भारतस्य विकासे महत्त्वपूर्णः योगदान-कर्ता भवितुं शक्नुयात्।

तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी जम्मू-कश्मीरस्य युवसु आत्मविश्वासं जागरितवान् तथा तेषां कृते नूतनान् अवसरान् उद्घाटितवान्। अधुना उद्योगजगतः एतत् सामूहिकं दायित्वम् अस्ति यत् तत् जम्मू-कश्मीरं सृजना-त्मककार्याणां केन्द्रं कुर्यात्। अस्माभिः तस्य जलविद्युत्सामर्थ्यं ज्ञातव्यम्। तस्य उद्यानकृषिं, पर्यटनं, हस्तशिल्पं च वैश्विकविपणीभिः सह संयोजयितव्यम्। जम्मू-कश्मीरस्य प्रत्येकस्मिन् क्षेत्रे उद्योगजगतः नेतॄणां हस्तक्षेपः भारतस्य भविष्ये निवेशः भविष्यति।

Hindusthan Samachar / Divya Ranjan