Enter your Email Address to subscribe to our newsletters

साञ्ची-उपडाकगृहस्य कायाकल्पस्य रूपस्वरूप-सुधारस्य च कार्यं पूर्णम्।
रायसेनम्, २३ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य साञ्ची-उपडाकगृहस्य केन्द्रीयमन्त्रिभ्यां शिवराजसिंहचौहान: ज्योतिरादित्यसिन्धिया इत्येताभ्यां च सोमवासरे आभासीयमाध्यमेन लोकार्पणं करिष्यते।
भारतसर्वकारस्य डाकगृह-आधुनिकी-करणस्य महत्त्वाकाङ्क्षिण्याः योजनायाः अन्तर्गतं नवदिल्ली इत्यत्र स्थितस्य स्कूल-ऑफ-प्लानिङ्ग-एण्ड्-आर्किटेक्चर-संस्थानस्य वास्तुरचना-सम्बन्धिदिशानिर्देशानाम् अनुरूपं मध्यप्रदेशस्य साञ्ची-उपडाकगृहस्य कायाकल्पस्य रूपस्वरूप-सुधारस्य च कार्यं पूर्णं कृतम् अस्ति। साञ्च्याः ऐतिहासिकं सांस्कृतिकं च परिचयं ध्याने निधाय डाकगृहभवनाय आधुनिकं, आकर्षकं, नागरिककेन्द्रितं च स्वरूपं प्रदत्तम् अस्ति।
जनसम्पर्काधिकारिणी अनुभासिंहः रवि-वासरे अवदत् यत् सोमवासरे २४ अगस्तमासे केन्द्रीयकृषिमन्त्री शिवराज-सिंहचौहानः, केन्द्रीयसञ्चार-पूर्वोत्तरक्षेत्र-विकासमन्त्री ज्योतिरादित्य-सिन्धिया, केन्द्रीयसञ्चारराज्यमन्त्री चन्द्रशेखरः तथा डाकविभागस्य सचिवः सुब्रतदासः सायं प्रायः ०५ वादने आभासीयमाध्यमेन अस्य अत्याधुनिकस्य उपडाकगृहस्य लोकार्पणं करिष्यन्ति।
स्थानीयस्तरे साञ्च्यां आयोज्यमाने कार्यक्रमे साञ्चीविधानसभाक्षेत्रस्य विधायकः डॉ. प्रभुरामचौधरी, नगरपरिषदः अध्यक्षः पप्पूरेवारामअहिरवारः, डाक-विभागस्य वरिष्ठाधिकारी आर.एस. रघुवंशी, भोपालस्य डाकनिदेशकः इत्येतै: सह डाकविभागस्य वरिष्ठाधिकारिणः, जनप्रतिनिधयः नागरिकाश्च सम्मिलिताः भविष्यन्ति।
उक्तं यत् एस.पी.ए.-संस्थानस्य वास्तु-रचनासम्बन्धिदिशानिर्देशानाम् अनुरूपं डाकगृहभवनस्य बाह्यं तथा आन्तरिकं स्वरूपं आधुनिकम् आकर्षकं च कृतम् अस्ति। अस्मिन् नागरिकाणां सुविधा, सुगमागमनम्, उत्तमं कार्यप्रवाहं तथा आधुनिकसेवानुभवं च विशेषप्राथम्यं प्रदत्तम् अस्ति। साञ्ची-उपडाकगृहस्य आधुनिकीकरणं केवलं भवनस्य सौन्दर्यी-करणपर्यन्तं सीमितं नास्ति, अपि तु डाकगृहाणि आधुनिकानि नागरिक-केन्द्रितानि जनसेवाकेन्द्राणि इव विकसितानि सन्ति।
आधुनिकसुविधानां श्रेष्ठसेवावातावरणस्य च माध्यमेन नागरिकेभ्यः स्पीडपोस्ट, डाकसञ्चयबैंक, डाकजीवनबीमा, आधार-सेवा, पार्सल तथा अन्याः डाकविभागीया वित्तीयाश्च सेवाः अधिकसुविधया उपलब्धाः कर्तुं प्रयासः कृतः अस्ति। विश्वस्य ऐतिहासिकया सांस्कृतिक्या च परिचित्या सह आधुनिकडाकसेवानां समन्वयः डाकविभागस्य परम्परां, आधुनिकतां, जनसेवां च प्रति प्रतिबद्धतां प्रदर्शयति।
Hindusthan Samachar / Divya Ranjan