मध्यप्रदेशस्य उज्जैने इटली, स्पेन अथ इंग्लैंड इत्येषां त्रियुगलेन हिंदू वैदिक परम्परातः कृतःविवाहः
उज्जैनम्, 23 अगस्तमासः (हि.स.)। विभिन्नेभ्यः देशेभ्यः भारतम् आगच्छन्तः विदेशिनः न केवलं भारतीयजीवनपद्धत्या संस्कारैश्च प्रभाविताः भवन्ति, अपितु अधुना तान् स्वजीवने अपि अङ्गीकुर्वन्ति। अस्य ताजं प्रमाणं मध्यप्रदेशस्य उज्जयिन्यां दृष्टम्। अत्र शनिव
हिंदू वैदिक परम्परा से विवाह की रम्में निभाते हुए विदेशी जोड़े


हिंदू वैदिक परम्परा से सात फेरे लेते हुए विदेशी जोड़े


हिंदू वैदिक परम्परा से विवाह की रम्में निभाते हुए विदेशी जोड़े


वरमाला के समय की तस्वीर


उज्जैनम्, 23 अगस्तमासः (हि.स.)।

विभिन्नेभ्यः देशेभ्यः भारतम् आगच्छन्तः विदेशिनः न केवलं भारतीयजीवनपद्धत्या संस्कारैश्च प्रभाविताः भवन्ति, अपितु अधुना तान् स्वजीवने अपि अङ्गीकुर्वन्ति। अस्य ताजं प्रमाणं मध्यप्रदेशस्य उज्जयिन्यां दृष्टम्। अत्र शनिवासरस्य रात्रौ इटली, स्पेन इङ्ग्लैण्ड् च देशेभ्यः आगतैः त्रिभिः विदेशिदम्पतीभिः हिन्दुवैदिकपरम्परानुसारं विवाहः कृतः।

उज्जयिन्याः निनोरास्थिते आनन्दमय-वेलनेस-रिट्रीट् इत्यस्मिन् डॉ. ओमानन्दगुरुजीवर्यस्य सान्निध्ये शनिवासरे सायं षड्वादने वैदिकपरम्परानुसारं विवाहस्य विधयः प्रारब्धाः, ये रात्रेः विलम्बपर्यन्तं प्रचलिताः। त्रयः विदेशिदम्पती वैदिकमन्त्राणां घोषस्य मध्ये अग्निं साक्षिणं कृत्वा सप्तपदानि कृतवन्तः तथा च जीवनपर्यन्तं परस्परं सहचरत्वस्य संकल्पं कृतवन्तः।

विशेषं तु एतत् यत् त्रयः अपि दम्पती डॉ. ओमानन्दगुरुजीवर्यस्य शिष्याः सन्ति। योगेन ध्यानेन भारतीयाध्यात्मिकपरम्परया च प्रभाविताः एते विदेशिसाधकाः सनातनपरम्परां स्वजीवने अङ्गीकृतवन्तः। तैः भारतीयानि आध्यात्मिकनामानि अपि स्वीकृतानि सन्ति।

डॉ. ओमानन्दगुरुजीवर्येण उक्तं यत् समारोहस्य अन्तर्गतं इटलीदेशीया ईवा मातृदर्पणानन्द इति नाम्ना तस्याः सहचरः मास्सिमिलियानो च बलरामानन्द इति नाम्ना विवाहसंस्कारं सम्पन्नवन्तौ। इटलीदेशात् आगतौ अन्यौ दम्पती जेसिका लुका च अपि भारतीयरीतिरिवाजानुसारं सप्तपदानि कृतवन्तौ। जेसिका मातृसीतानन्द इति, लुका रामानन्द इति च आध्यात्मिकनामभ्यां परिचितौ स्तः। अपरत्र स्पेनदेशीया इन्मा मातृशान्त्यानन्द इति तथा इङ्ग्लैण्ड्देशीयः मार्कः प्रकाशानन्द इति नाम्ना वैदिकपरम्परानुसारं विवाहं कृतवन्तौ।

गुरुजीवर्यस्य अनुसारं विदेशिसाधकानां कृते भारतीयविवाहः केवलं सामाजिकः कानूनी वा सम्झौता नास्ति। भारतीयपरम्परायां विवाहः द्वयोः परिवारयोः द्वयोः आत्मनोश्च मध्ये जीवनपर्यन्तं सम्बन्धः मन्यते। सप्तपदीनां समये क्रियमाणाः संकल्पाः, परिवारस्य महत्त्वं सम्बन्धानां जीवनपर्यन्तं निर्वाहस्य च भारतीयचिन्तनपद्धतिः एतान् विदेशिसाधकान् प्रभावितवती। एतदेव कारणं यत् योगाध्यात्मयोः कृते भारतम् आगच्छन्तः बहवः विदेशिनः अधुना भारतीयसंस्कारान् अपि स्वजीवनस्य भागं कुर्वन्ति।

उल्लेखनीयं यत् विश्वप्रसिद्धज्योतिर्लिङ्गस्य भगवान् महाकालेश्वरस्य नगरी उज्जयिनी दीर्घकालात् देशविदेशयोः आध्यात्मिकसाधकानां आकर्षणस्य केन्द्रं वर्तते। मन्दिरैः योगेन ध्यानेन सनातनपरम्पराभिश्च सम्बद्धस्य वातावरणस्य कारणात् विदेशिसाधकाः अत्र आगच्छन्ति। अस्यैव आध्यात्मिकवातावरणस्य मध्ये एतेषां त्रयाणां दम्पत्योः स्वदेशान् विहाय उज्जयिन्यां वैदिकविवाहं कर्तुं निर्णयः अभवत्। तेषां कृते एतत् केवलं विवाहसमारोहः नासीत्, अपितु भारतीयाध्यात्मिकपरम्परया सह सम्बद्धतायाः अनुभवः अपि आसीत्।

उज्जयिन्यां विदेशिनागरिकैः हिन्दुरीतिरिवाजानुसारं विवाहकरणस्य एतत् प्रथमं प्रकरणं नास्ति। अस्मात् पूर्वं डिसेम्बर् २०२४ तमे वर्षे अपि इटली, अमेरिका पेरू च देशेभ्यः आगतैः त्रिभिः विदेशिदम्पतीभिः निनोरास्थिते परमानन्दयोगाश्रमे वैदिकमन्त्राणां घोषस्य मध्ये सप्तपदानि कृतानि आसन्। इदं द्वितीयवारम् अस्ति यदा उज्जयिन्याः अस्मिन् आश्रमे त्रिभिः विदेशिदम्पतीभिः भारतीयपरम्परानुसारं विवाहः कृतः।

---------------

Hindusthan Samachar / Dheeraj Maithani