तिरंगध्वजस्य महत्त्वं 140 कोटिदेशवासिनां स्वप्नः एव अंतरिक्षे भारतस्य संकल्पः- प्रधानमंत्री मोदी
नव दिल्ली, 23 अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रियान्तरिक्षदिवसस्य अवसरे उक्तवान् यत् त्रिवर्णध्वजस्य गौरवं च एकशतचत्वारिंशत्कोटिदेशवासिनां स्वप्नानि एव अन्तरिक्षे भारतस्य संकल्पः सन्ति। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोद
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नव दिल्ली, 23 अगस्तमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रियान्तरिक्षदिवसस्य अवसरे उक्तवान् यत् त्रिवर्णध्वजस्य गौरवं च एकशतचत्वारिंशत्कोटिदेशवासिनां स्वप्नानि एव अन्तरिक्षे भारतस्य संकल्पः सन्ति।

अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी एक्स इत्यत्र प्रसारिते एकस्मिन् चलचित्रे उक्तवान्, अयोध्यायां मया उक्तमासीत् यत् एषः नूतनकालस्य प्रारम्भः अस्ति। अस्मिन् नूतनकाले वैश्विकव्यवस्थायां भारतं स्वकीयम् अन्तरिक्षक्षेत्रं निरन्तरं विस्तारयति। वयं सर्वे मिलित्वा वर्षे २०४७ तमे भारतं विकसितराष्ट्रं कर्तुं संकल्पं कृतवन्तः। अस्य संकल्पस्य सिद्धिं प्रति नेतुं अन्तरिक्षक्षेत्रस्य भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। अद्य एते जनरेशन जेड् अभियन्तारः, जनरेशन जेड् रूपनिर्मातारः, जनरेशन जेड् वैज्ञानिकाश्च नूतनां नूतनां प्रौद्योगिकीम् निर्मान्ति।

सः उक्तवान् यत् प्रक्षेपणप्रणालिः भवतु, संयुक्तपदार्थाः वा उपग्रहाधारमञ्चाः वा, भारतस्य युवा अद्य तेषु क्षेत्रेषु कार्यं कुर्वन्ति, येषां कतिपयवर्षपूर्वं कल्पनापि कर्तुं न शक्यते स्म। भारतस्य निजान्तरिक्षक्षेत्रस्य प्रतिभा सम्पूर्णे विश्वे स्वकीयां विशिष्टां परिचितिं निर्माति। अद्य वैश्विकनिवेशकानां कृते भारतस्य अन्तरिक्षक्षेत्रम् आकर्षणस्य केन्द्रं भवति।

प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् प्रक्षेपकस्य उल्टगणना लक्षशः बालकान् प्रेरयति। प्रत्येकस्मिन् गृहे कागदस्य विमानानि उड्डीयन्ते, तेषु बालकेषु कश्चित् वर्धमानः वैमानिकाभियन्ता भवितुम् इच्छति, भवत्सदृशः अभियन्ता भवितुम् इच्छति, वैज्ञानिकः भवितुम् इच्छति।

---------------

Hindusthan Samachar / Dheeraj Maithani