नेपाले सर्वकार गठनस्य पञ्चमासेभ्यः परमपि 31 इत्येषु 21 राजदूतावासाः राजदूतविहीनाः
काठमांडूः, 23 अगस्तमासः (हि.स.)। नेपालदेशे नूतनसर्वकारस्य गठनस्य प्रायः पञ्चमासाः सम्पूर्णतां गन्तुम् उद्यताः सन्ति, तथापि विदेशेषु रिक्तेषु नेपालीयराजनयिकप्रतिनिधिकार्यालयेषु राजदूतानां नियुक्तिः अद्यापि न सम्पन्ना अभवत्। सर्वकारेण त्रयोदशदेशेषु स
विदेश मंत्रालय


काठमांडूः, 23 अगस्तमासः (हि.स.)। नेपालदेशे नूतनसर्वकारस्य गठनस्य प्रायः पञ्चमासाः सम्पूर्णतां गन्तुम् उद्यताः सन्ति, तथापि विदेशेषु रिक्तेषु नेपालीयराजनयिकप्रतिनिधिकार्यालयेषु राजदूतानां नियुक्तिः अद्यापि न सम्पन्ना अभवत्। सर्वकारेण त्रयोदशदेशेषु स्पर्धात्मकप्रक्रियया राजदूतानां नियुक्त्यर्थम् आवेदनानि आहूतानि आसन्, किन्तु प्रक्रिया अद्यापि निर्णयपर्यन्तं न प्राप्ता। तदतिरिक्तं सप्तसु अन्यदेशेष्वपि नियुक्तेः विषये अनिश्चितता वर्तते।

नेपालस्य एकत्रिंशत् राजदूतावासेषु एकविंशतिः राजदूतविहीनाः सन्ति। दीर्घकालं यावत् पदानि रिक्तानि रहनेन बहवः राजनयिकप्रतिनिधिकार्यालयाः कार्यवाहकप्रमुखानाम् आश्रयेण सञ्चाल्यमानाः सन्ति। विशेषज्ञाणां मतानुसारं राजदूतानाम् अनुपस्थित्या नेपालस्य विदेशनीतिः विभिन्नेषु देशेषु तस्य कूटनीतिकप्रतिनिधित्वं च दुर्बलं भवति।

नेपालस्य विदेशेषु एकत्रिंशत् राजदूतावासाः सन्ति, येषु संयुक्तराष्ट्रसंघस्य स्थायीप्रतिनिधिमण्डलमपि अन्तर्भवति। तदतिरिक्तम् अष्ट महावाणिज्यदूतावासाः सन्ति। गतवित्तवर्षपर्यन्तं चतुस्त्रिंशत् राजदूतावासाः दश महावाणिज्यदूतावासाश्च आसन्, किन्तु त्रयः राजदूतावासाः द्वौ च महावाणिज्यदूतावासौ च पिधानप्रक्रियायां स्तः।

दक्षिणाफ्रिका, डेनमार्क तथा ब्राजीलदेशेषु स्थितान् नेपालीराजदूतावासान् चीनदेशस्य छेङ्गदूनगरस्थितं महावाणिज्यदूतावासं च अमेरिकादेशस्य सैनफ्रान्सिस्कोनगरस्थितं महावाणिज्यदूतावासं च पृथक् कृत्वा अवशिष्टेषु प्रतिनिधिकार्यालयेषु एकविंशतिः राजदूतावासाः तादृशाः सन्ति, यत्र राजदूतपदं रिक्तम् अस्ति। एतेषु एकादश राजदूतावासाः गतवर्षस्य नवम्बरमासस्य अन्तभागात् षट् च अस्य वर्षस्य एप्रिलमासात् राजदूतविहीनाः सन्ति। अपरतः कार्यकालं सम्पूर्य नेपालं प्रत्यागताः षट् सेवावर्गीयाः राजदूताः विदेशमन्त्रालयस्य सहसचिवपदाधिकारिणः अपि सर्वकारस्य अग्रिमनिर्णयस्य प्रतीक्षां कुर्वन्ति।

भारतं चीनं च सहित्वा अमेरिकादेशे, ब्रिटेनदेशे, बहरैने, बाङ्गलादेशे, बेल्जियमदेशे, कनाडादेशे, मिस्रदेशे, फ्रान्सदेशे, जर्मनीदेशे, इजरायलदेशे, जापानदेशे, दक्षिणकोरियादेशे, कुवैतदेशे, मलेशियादेशे, म्यांमारदेशे, ओमानदेशे, पाकिस्तानदेशे, पुर्तगालदेशे, कतारदेशे, रूसदेशे, सऊदीअरबदेशे, श्रीलङ्कादेशे, थाईलैण्डदेशे, संयुक्तारब-अमीरातदेशे तथा स्पेनदेशे स्थितेषु नेपालीराजदूतावासेषु राजदूतपदानि रिक्तानि सन्ति।

नेपालस्य संयुक्तराष्ट्रसंघस्य स्थायीप्रतिनिधिमण्डलानि अमेरिकादेशस्य न्यूयॉर्कनगरे, स्विट्जरलैण्डदेशस्य जेनेवानगरे तथा ऑस्ट्रियादेशस्य वियेनानगरे स्थितानि सन्ति। अपरतः भारतस्य कोलकातानगरे, चीनस्य ल्हासानगरे, हाङ्गकाङ्गनगरे तथा ग्वाङ्गझौनगरे, अमेरिकादेशस्य न्यूयॉर्कनगरे तथा डलासनगरे, संयुक्तारब-अमीरातस्य दुबईनगरे तथा सऊदीअरबस्य जेद्दानगरे नेपालीमहावाणिज्यदूतावासाः सन्ति।

उल्लेखनीयं यत् जनरेशनजी आन्दोलनस्य अनन्तरं गठितेन निर्वाचनसर्वकारेण गतवर्षस्य नवम्बरमासे एकादशदेशेषु कार्यरताः नेपालीराजदूताः प्रत्याहर्तुं निर्णयः कृतः आसीत्। ततः प्रधानमन्त्री बालेन्द्रशाहस्य नेतृत्वे मार्चमासस्य सप्तविंशतिदिनाङ्के सर्वकारस्य गठनानन्तरं षट्सु अन्येषु स्थानेष्वपि राजदूताः प्रत्याहृताः। एतेषां राजदूतानां नियुक्तिः नेपालीकाङ्ग्रेस्, एमाले तथा नेकपा इत्येतयोः मध्ये सत्तासाझेदारीस्य आधारेण अभवत्।

एतेषु द्वौ राजदूतावासौ पिधानप्रक्रियायां स्तः। अवशिष्टेषु पञ्चदशदेशेषु अद्यापि राजदूतनियुक्तेः अनुशंसापि कर्तुं न शक्यते। अनेन नेपालस्य विदेशनीतौ कूटनीतिकप्रतिनिधिकार्यालयेषु च नेतृत्वसंकटं अधिककालं यावत् प्रवर्तिष्यते इति दृश्यते।-----------

Hindusthan Samachar / Dheeraj Maithani