पीयूषगोयलस्य चतुर्दिवसीया जापानयात्रा श्वारभ्य, भारतस्य अद्यावधि बृहत्तमः व्यापारिकप्रतिनिधिमण्डलः सहैव भविष्यति
नवदेहली, २३ अगस्तमासः (हि.स.)। वाणिज्य-उद्योगमन्त्री पीयूषगोयलः २४ तः २७ अगस्तपर्यन्तं जापानदेशस्य यात्रां करिष्यति। अस्मिन् अवधौ सः टोक्यो, नागोया तथा ओसाका नगराणि गमिष्यति तथा च भारतस्य अद्यावधि बृहत्तमं व्यापारिकप्रतिनिधिमण्डलं जापानदेशं नयिष्यत
पीयूषगोयलस्य चतुर्दिवसीया जापानयात्रा श्वारभ्य, भारतस्य अद्यावधि बृहत्तमः व्यापारिकप्रतिनिधिमण्डलः सहैव भविष्यति


नवदेहली, २३ अगस्तमासः (हि.स.)। वाणिज्य-उद्योगमन्त्री पीयूषगोयलः २४ तः २७ अगस्तपर्यन्तं जापानदेशस्य यात्रां करिष्यति। अस्मिन् अवधौ सः टोक्यो, नागोया तथा ओसाका नगराणि गमिष्यति तथा च भारतस्य अद्यावधि बृहत्तमं व्यापारिकप्रतिनिधिमण्डलं जापानदेशं नयिष्यति। अस्मिन् प्रतिनिधिमण्डले २०० अधिकाः व्यवसायिनः सम्मिलिताः भविष्यन्ति, ये निर्माणक्षेत्र, अर्धचालकक्षेत्र, स्वच्छऊर्जाक्षेत्र, इस्पातक्षेत्र, वाहनक्षेत्र, वित्तीयसेवाक्षेत्र, स्वास्थ्यसेवाक्षेत्र तथा नवप्रवर्तनाधारित-उद्यमक्षेत्रैः सम्बद्धाः सन्ति।

केन्द्रीयवाणिज्यमन्त्रालयेन कथितं यत् टोक्यो नगरे मन्त्री प्रमुखैः जापानी औद्योगिकगृहाणां तथा संस्थाः नेतृत्वकर्तृभिः सह मेलनं करिष्यति। तदतिरिक्तं जापानव्यापारमहासंघेन (केइदानरेन) सह गोलमेजसम्मेलनं भविष्यति। अर्धचालक, कृत्रिमबुद्धिमत्ता, नवप्रवर्तनाधारित-उद्यम तथा विदेशी-निवेशकानां सह विशेषसत्राणि अपि आयोजितानि भविष्यन्ति। गोयलः स्वजापानी समकक्षेण अर्थव्यवस्था, व्यापार एवं उद्योगमन्त्रिणा अकाजावा रयोसेई महोदयेन सह द्विपक्षीयवार्तां करिष्यति तथा जापानी संसदः एवं शासनस्य वरिष्ठसदस्यैः सह अपि संवादं करिष्यति।

नागोया नगरे गोयलः चूकेइरेन (मध्यजापान आर्थिकमहासंघ) तथा नागोया वाणिज्य-उद्योगमण्डलेन सह व्यापारिकप्रदर्शनकार्यक्रमं करिष्यति। अत्र वाहनक्षेत्रस्य तथा इस्पातक्षेत्रस्य निवेशकैः सह अपि वार्तालापं करिष्यति।

यात्रायाः समापनं ओसाका नगरे निवेशकानां तथा व्यापारिकप्रदर्शनकार्यक्रमेण भविष्यति। अस्मिन् इलेक्ट्रॉनिक्स, औद्योगिक तथा उपभोक्ताक्षेत्रस्य प्रमुखजापानीकम्पनीनां प्रतिनिधिभिः सह संवादः भविष्यति।

उल्लेखनीयं यत् जापानः भारतस्य विश्वसनीयः सहयोगी राष्ट्रः अस्ति तथा वाहन, इस्पात, इलेक्ट्रॉनिक्स, वित्तीयसेवा एवं आधारभूतसंरचना क्षेत्रेषु तस्य महत्त्वपूर्णा भूमिका अस्ति। अस्याः यात्रायाः माध्यमेन उभयोः राष्ट्रयोः मध्ये व्यापारिक एवं निवेशसम्बन्धानां नूतनगतिः प्राप्तुं अपेक्षा अस्ति। अपि च उच्चप्रौद्योगिकीयुक्तनिर्माणक्षेत्रे तथा नवपीढी-उद्योगेषु सहयोगस्य नूतनाः अवसराः उद्घाटिष्यन्ते, ये आत्मनिर्भरभारतस्य तथा विकसितभारतस्य दृष्टिकोणस्य अनुरूपाः सन्ति।

––––––––––––––––––––––

Hindusthan Samachar / Dheeraj Maithani